Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan
View full book text
________________
मृगावती | वचः । विससर्जाश्रुरूपेण, सापमानं स्वमानसात् ॥ ११ ॥ अपमानज्वरावेग-व्यथाव्यपगमस्तदा। चरित्रम् ११५३ अवेदि स्वेदनिःस्यदा-दंगेस्तस्या विशारदैः ॥ १२ ॥ प्रियालापैर्घनरसैः, सिक्तोऽस्याः प्रेमपादपः To1
।। रोमांचनिचयव्याजा–दमुंचदिव कोरकान् ॥ १३ ॥ पतिलावण्यपीयूष–पानपीनवपुस्ततः । सा | जगाद गलबाष्प-बिंदुर्बद्धशिरोंजलिः ॥ १४ ॥ देशत्यागस्तपःक्लेशः, कांतारक्रमणक्लमः । आर्यपुत्र | | मया तुभ्य–मुपनिन्ये पदे पदे ॥ १५ ॥ उत्तमणोंऽसि नाथ त्व-मधमर्णास्म्यहं पुनः । तत्किं 10 | ब्रवीमि सर्व मे, क्षेतव्यं विप्रियं त्वया ॥ १६ ॥
इति विज्ञप्य सा पत्युः, पादो केशैरमार्जयत् । विनयः कुलनारीणां, कांते नैसर्गिको यतः | A॥ १६ ॥ युगंधरसुतोऽप्यूचे, भक्त्या तौ दंपतीप्रति | युवां दुःखे मया क्षिप्तौ, पांचालोच्छेदमिच्छना | ॥ १७ ॥ तद्युवामपराधं मे, सर्व मर्षितुमर्हथः । नैव कुप्यंति विद्वांसो, वैद्याय कटुदायिने ॥ १८ ॥ दंपती बहुमेनाते, तत्तदा मंत्रिणो वचः । मंतुं नांतर्गतं धत्ते, कृतज्ञो हितकारिणां ॥ २० ॥ ऊचे ॥१५४॥ चंपकमालाथ, पद्मावत्या सविस्मयं । सखि प्रियसखीयुक्ता, या पूर्व ब्राह्मणो मया ॥ २१ ॥ साऽभू

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172