Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan

View full book text
Previous | Next

Page 158
________________ चरित्रम् मृगावती || विदित्वाथ, रुमण्वानयमित्यमुं । आलिंग्यागमने हेतुं, पप्रच्छ पृथिवीपतिः ॥ ३३ ॥ रुमण्वानप्य भाषिष्ट, देवस्याह्वानहेतवे । आयातोऽस्मि निषेवंतां, चिराद्वत्सा महोत्सवं ॥ ३४ ॥ अथ प्रसीद ॥१५६॥ तद्देव, द्रुतं पादौ च धार्यतां । भालविन्यस्तहस्ता हि, मार्गमालोकते प्रजा ॥३५॥ ततो नाभेयमभ्यर्च्य, प्रणिपत्याथ गोमुखं । सपत्नीको महानीकः, कौशांबीमचलन्नृपः ॥ ३६॥ सहायांतं महाबाहूं, विसृज्य विनयात्ततः । वत्सान् वत्सेश्वरः प्राप्य, पितेवानंदभासदत् ॥ ३७ ॥ कालिंदीकूल| देशेषु, पंचालोच्छेदसाक्षिषु । सेनां निवेशयामास, द्रुतमेत्य क्षितीश्वरः ॥ ३८ ॥ तत्तीरे सह पत्नी-10 भ्यां, विहरतं महीपतिं । रुमण्वानभ्यधादेवं, पंचालस्याजिभूरियं ॥ ३९ ॥ अत्र गोपालपालाभ्यां, पंचालंप्रति तत्कृतं । भीमार्जुनाभ्यां कोपेन, कौरवान्प्रति यत्पुरा ॥ ४० ॥ सुदर्शनकुमारोऽत्र, तथा ते परिपंथिनि । दर्शयामास शौंडोर्य, यथा करिणि केसरी ।। ४१ ॥ अत्र तु प्रौढमित्रेण, सचिवाग्रेसरेण ते । अच्छेदि कदलीच्छेद, पंचालनृपतेः शिरः ॥ ४२ ॥ इत्थं कथयतस्तस्य, रजःसंचयसूचिताः । प्रत्याजग्मुस्तमुर्वीशं, राजपुत्रास्त्रयोऽपि ते ॥ ४३' ॥ तानौचित्येन संभाव्य, भूपः शिबिर ॥१५६॥

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172