Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan
View full book text
________________
मृगावती
| वास्तोष्पतिर्यथा ॥ ५५ ॥ तस्यारितिमिरस्तोमं, तेजःप्रत्यूहकारणं । तरणेररुणेनेव, व्यनीयत रुम- चरित्रम् | ण्वता ॥ ५६ ॥ विविधोपासनाचारु-गुणाकृष्टहृदं तदा । आत्मांतेवासिनं चक्रे, वीशामीशो वसंतकं | ॥५७॥ धर्ममाद्रियमाणस्य, दीनानुद्धरतोऽपि च । नित्यं तस्य मनो मातृ-वंदनायोदकंठत ॥५८॥ तस्याकूतमथो ज्ञात्वा, ज्ञानेन ज्ञातनंदनः । पावयामास कौशांबी, निजैश्चरणरेणुभिः ॥ ५९॥ मृगावत्यपि तत्रागा-समं चंदनवालया। वांछितार्थः समस्तोऽपि, सुकृतैरुपढौक्यते ॥ ६० ॥ व्याख्या | पर्वजिनेशस्य, प्राकारत्रयशालिनी ! सुरैः परिसरारामे, रमणीया विनिर्ममे ॥ ६१ ॥ तद्विदित्वा | क्षणात् क्षोणी-पालेनोद्यानपालकात् । सांतःपुरपरीवारे–णागामि स्वामिनोंतिके ॥ ६२ ॥ तत्र प्रदक्षिणीकृत्य, भगवंतं भुवः प्रभुः । जानुस्पृष्टमहोपृष्टः, सानंदमिति तुष्टुवे ॥ ६३ ॥ जय त्वं सर्वसिद्धार्थ-सिद्धार्थनृपनंदन | जगत्संकल्पकल्पद्रो, गुणमाणिक्यरोहण ॥६४॥ इत्थं कृतस्तुतिर्नियदानंदाश्रुकणावलिः । ननाम नम्रपंचांगः, कौशांबीशो जिनेश्वरं ॥६५॥ ततः समुचितं देश-मध्या- IN॥१५॥ सीने महीपतौ । वर्धमानजिनाधीशः, शुद्धं धर्ममुपादिशत् ॥ ६६ ॥ संसारसागरस्यांतः, प्राणिभिर्व्य

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172