Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan
View full book text
________________
॥१६॥
मृगावती | धिग्ममैतां प्रमादितां ॥ २२ ॥ इत्यतीवानुशोचंती, सिंचंती मार्गमश्रुभिः । पदे पदे स्खलंती च, सा
चलद्धर्मनिश्चला ॥ २३ ॥ आगाच्च व्रतिनीवात-स्वाध्यायध्वनिबंधुरं । गतातिचारचारित्र-पात्रसंश्रयमाश्रयं ॥ २४ ॥ आवश्यकांते विश्रांतां, संस्तारकतले तदा । मृगावती शनैरेत्य, तत्रावंदत | | चंदनां ॥ २५ ॥ विनयेन नमस्यंती-मवगम्य मृगावतीं। उपालब्ध वचोभिस्तां, चंदना चंदना
पमैः ॥२६॥ नक्तमेकाकिनी वत्से, जिनास्थाने स्थितासि किं । निशामप्यसमप्रज्ञ, न हि ज्ञातवती । | कथं ॥ २७ ॥ इतरापि तमखिन्यां, संचरंती कुलांगना । अन्यथा शंक्यते लोकैः, किं पुनर्न तपो-10 धना ॥ २८ ॥ चेटकस्य विशां पत्यु-रभवस्त्वं तनूरुहा । शतानीकमहोभर्तु-रभृश्च सहचारिणी ॥ २९ ॥ प्रभावतीप्रभृतय-स्तव याश्च सहोदराः। तासां कल्याणि नाम्नापि, जनोऽयं विरजीभवेत् | ॥३०॥ आयुष्मति प्रमादोऽयं, तत्ते नाभूत्कुलोचितः। उपात्तमुनिवृत्ताना-मसौ हि परमो रिपुः | ॥ ३१ ॥ पश्य प्रत्यर्थिनानेन, हन्यते संयमः सतां । हते तस्मिन् हतास्तेऽपि, मुधा तेषां हि जीवितं ॥१४॥ ३२|| अचक्षुर्विषयेऽमुष्मिन्, पथि संचरणेन ते । षट्कायोत्माथनाद्वत्से, हतं संयमजीवितं ॥३३॥

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172