Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan
View full book text
________________
मृगावती
॥१६७॥
खंति मूलेभ्यः, क्रमोऽयं सर्वशाखिनां । मूलोदयस्तु शाखाभ्यो, येषामल्पे हि तेंहिपाः ॥ ५६ ॥ | विजहार महीहार-भृतः स्थानांतरे प्रभुः । चंदनापि मृगावत्या, समं स्वामिनमन्वगात् ॥ ५७ ॥ दिवं दिविषदां वर्ग, जग्मुषि प्रोतमानसे । वत्सराजोऽपि कोशांबी, सपत्नीकः समाययो ॥ ५८ ॥ प्रीत्याथ पालयामास, प्रजामिव निजां प्रजा । स विजिग्येऽरिषड्वर्ग, न्यायमार्गममार्गयत् ॥ ५९ ॥ स त्रिष्वपि पुमार्थेषु, समतां दर्शयन्नपि । मानसेनाऽनुरागेण, धर्ममेव न्यषेवत ॥ ६० ॥ जोवंतस्वामिनो बिंब-सनाथं पृथिवीपतिः । प्रासादं कारयामास, स्वर्णरत्नमयं पुरि ॥ ६१ ॥ सोऽमारिं घो-10 षयामास, रथयात्रामवीवृतत् । अवीवृधच्च दानेन, दीनानाथमनोरथान् ॥ ६२ ॥ अथ केवलिपर्याय-मनुभूय मृगावती । कर्म निर्मूल्य निर्वाणं, लेभेऽनंतसुखोदयं ॥ ६३ ॥शीलं शरच्चंद्रमरीचि- | निर्मलं, गुरौ च गुर्वी बहुमानसंपदं । द्वयं दधानेदमशेषयोषितां, निदर्शनीभावमगान्मृगावती ॥४॥ मृगावत्याः सत्याश्चरितमिदमुद्दाममहिम-प्ररोहं संरोहत्पुलकमुकुले कर्णकुहरे । समानीतं नोति ॥१७॥ जनयति कुमार्ग शमयति, श्रियः सूते स्फीताः परमपि पदं तत्प्रथयति ॥ ६५ ॥ बुधभ्रमरचुंबितं RI
DN0002040%

Page Navigation
1 ... 167 168 169 170 171 172