Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan
View full book text
________________
मृगावती इत्युपलभमानाया - चंदनाया मृगावतीं । निमीलन्नयनद्वंद्व - निद्रा मानसमानशे ॥३४॥ | तूष्णीजुषि प्रवर्त्तिन्या - मंहिसंवाहन क्रियां । कुर्वती सर्वतः शाश्रु - पूरिताक्षीत्यचिंतयत् ॥ ३५ ॥ आर्यिका ॥ १६५ ॥ ॐ जनमर्यादा - विपर्यास विधायिनीं । धिग्मां गुरुजनोद्वेग - निर्माणकलुषीकृतां ॥ ३६ ॥ संयमैकसमीनः, सर्वोऽपि श्रमणीजनः । सोऽतिप्रशस्यो यत्रास्ति, नातिचारः क्वचिद्यते ॥३७॥ अतंद्रधर्मनिर्माण - क्षपिताखिलकल्मषाः । धन्याः प्राचीनमुनयो, मुक्तिमार्गमुपस्थिताः ॥ ३८ ॥ एवमध्यवसायेन, कुंदेंदु कुमुदत्विषा । सा हत्वा घातिकर्माणि, कलयामास केवलं ॥ ३९ ॥ ततः सा हस्तविन्यस्त - व्यक्तमुक्त कणोपम । लोकमालोकयांचक्रे, द्रव्यपर्यायभेदतः ॥ ४० ॥ तिमिरं मेदुरोकुर्वनंगश्यामतया तया । संचरिष्णुस्तदा तेन, दुष्टो दृष्टः फणी तया ॥ ४१ ॥ मृगावत्या तमालोक्य, निकटाटनलंपटं । न्यस्तः संस्तारके बाहुः, प्रवर्त्तिन्याः क्षितेस्तलात् ॥ ४२ ॥ तस्यास्तेन जजागार, प्रयत्नेन प्रवर्त्तिनी । मनसा च प्रसन्नेन, निजगाद मृगावतीं ॥ ४३ ॥ वत्सेऽद्यापि तथैवासि, मम संवाहनांपरा । धिग्मदीयोऽपराधोऽयं, यद्विसृष्टासि नो मया ॥ ४४ ॥
चरित्रम्
॥१६५॥

Page Navigation
1 ... 165 166 167 168 169 170 171 172