Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan
View full book text
________________
मृगावती
१६०॥
। त्पादश्चैक आयतः । लंबमानोऽभवत्कूप-मध्ये भुजंगभोगवत् ॥ ७८ ॥ स पुमानिपतन् कूपे, प्राप ? | तत्पादमंतरा । आलंब्यलंबमानोऽस्था-द्रज्जुबद्धघटीनिभः ।।७९ ॥करं प्रक्षिप्य कूपांतः, करी पस्पर्श तच्छिरः । नाशकत्तु तमादातुं, मंदभाग्य इवोषधीं ॥ ८० ॥ दत्तदृष्टिरधोभागे, भागधेयविवर्जितः ।। कूपस्यांतरजगरं, गरोयांसं ददर्श सः ॥ ८१ ॥ पतत्कवलबुध्ध्या तं, निरीक्ष्याजगरोऽपि सः । कूपां-R तरपरं कूप-मिव वक्त्रं व्यकाशयत् ॥ ८२ ॥ चतुलपि हि पक्षेषु, चतुरोऽहीन् ददर्श सः । कालिंदीसोदरस्येव, बाणान् प्राणापहारिणः ॥ ८३ ॥ उत्फणाः फणिनस्ते तु, तं दष्टुं दुष्टचेतसः। फूत्कारपवनानास्यै–रमुंचन् धमनीनिभैः ॥८३॥ वटप्ररोहं तं छेत्तुं, मूषको द्वौ सितासितो। चटच्चटिति | चक्राते, दंतक्रकचगोचरं ॥ ८४ ॥ अनाप्नुवन् पुमांसं तं, सोऽपि मत्तौ मतंगजः । जघान वटशाखां | तां, वटमुत्पाटयन्निव ॥ ८५ ॥ वटस्यांदोल्यमानेन, पादेन स पुमान् दृढं । पाण्यहिबंधं तन्वानो, IN | नियुद्धमिव निर्ममे ॥ ८६ ॥ गजेनाहन्यमानायाः, शाखाया मधुमक्षिकाः । मधुमंडपमुत्स्सृज्यो-16
॥१६०॥ | डिडिरे तोमराननाः । ८७ ।। मक्षिकास्ता ददंशुस्तं, लोहसंदंशसन्निभैः । तुंडैर्भयंकरैस्तीक्ष्णे-जी
POOOOOO.

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172