Book Title: Matruka Prakaranam
Author(s):
Publisher: ZZ_Anusandhan
View full book text
________________
21
आद्येकवृत्तेर्युक्तस्य हादेोऽनुचरो लघुः । नैषोऽपि परवन् मन्द-प्रयत्नोच्चार एव चेत् ॥ षट्तांगमचक्रकर्कशलसद्वादीन्द्रमुद्राद्रुम - श्रेणीदाहदवानलः कलिमलप्रध्वंसहींकारवत् ।। तीव्रप्रयत्नोच्चारे तुपद्महूदमुखादेषा गङ्गाख्या सरिदुत्थिता ॥ आदिज्ञापनान्मैवं - तव निद्रा समुपागमदुच्चकैः सुमुखि ! शीघ्रमशेमहि ते वयम् ।। एकग्रहान्मैवं - मरुद्रथः खलु वारिद ! राजते, गगनमण्डलभूपतिवद्भवान् । इत्यादि ।।१०१।। समा समं समानोत्था समानेभ्य: समुत्थिताः । सन्ध्यक्षरपरेभ्यस्ता विधास्तिस्रः स्वयम्भुवाम् ॥१०२।। 'आ'कार मुख्याः खलु पञ्च दीर्घा: समैः समानैर्जनिता भवन्ति । आ । ई । ऊ । ऋ । ल ॥१०३।। ए-ओ इति द्वौ विषमैर्भवेतां ॥१०४॥ समान-सन्ध्य क्षर जौ तु ऐ-औ ॥१०५|| मैलः पयसि पयोवत् पयसि सलिलवच्च धान्यकणवच्च । ल(ल)दन्तेष्वेदादिषु संयुक्तव्यञ्जने क्रमशः ।। अ अ इत्यत आ इत्यादि ।। एवं लकारान्ताः ॥५॥ अइ १, आइ २, अई ३, आई ४, इत्यतः ए। अउ १, आउ २, अऊ ३, आऊ ४, इत्यत: ओ । अए १, आए २, अऐ ३, आऐ ४, इत्यतः ऐ। अओ १, आओ २, अऔ ३, आऔ ४, इत्यत: औ ॥१०६।। द्वावकारौ य आकार इति माऽभिग्रहं विधाः । न मैत्रः संभवेच्चैत्रो चैत्रद्विगुणचेष्टया ॥ अ अपेहीति वाक्यं च क्वाऽदात् कृपणसत्कृतिम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44