Book Title: Matruka Prakaranam
Author(s):
Publisher: ZZ_Anusandhan
View full book text
________________
23
किमूष्मत्वात् किमादेशात् किं युक्तव्यवहारतः । षस्य सान्तरता मध्य-वृत्तेः किं वा विशेषणात् ।। नादिरूहो – संत्यागात् प्रकीर्णत्वाच्च नापरः । गनान्तरत्वापातोऽस्तु तृतीये ज-णयोरपि ॥ न तुर्यो भूपयोगित्वाद् हकारस्त्वेष घोषवान् । कवर्गीयमपेक्ष्यैव तत्सिद्धेर्नास्ति पञ्चमः ॥ अथ हाविवृतस्यास्य संवृतत्वमिवेति चेत् । देवानुप्रिय ! तत् सम्यगृलोरपि वितर्कय ॥११४।। नाभेरुपरि आक्रामन् विवक्षाप्रेरितो मरुत् । हृदाद्यन्यतमस्थानो प्रयत्नेन विधाय(य)ते ।। विधार्यमाण: स स्थान-मभिहन्ति ततः परम् । ध्वनिरुत्पद्यते सोऽयं वर्णस्यात्मा वितर्कितः ॥११५।। स्वरत: कालतश्चैव स्थानतोऽपि प्रयत्नतः । अनुप्रदानतश्चेति विभागस्तस्य पञ्चधा ॥११६।। षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस्तथा । धैवतश्च निषादश्च सप्तैते कथिताः स्वराः ॥११७|| षड्जं मयूराः क्रूयन्ते गावस्त्वृषभनादिनः । अजादयश्च गान्धारं क्रोञ्चः क्वणति मध्यमम् ॥ उडर: पञ्चमं ब्रूते हेषतेऽश्वस्तु धैवतम् । निषादं करिणो ब्रूयु-रेषा तेषामुदाहृतिः ॥११८।। गान्धारश्च निषादः स्मृतावुदात्तेऽथ धैवतोऽप्यूषभः । द्वावनुदात्ते पञ्चम-मध्यम-षड्जास्त्रयः स्वरिते ॥११९।।
उच्चोच्चार उदात्त: स्या-नीचैरुच्चरितोऽपरः । स्वरितः समवृत्त्यैवो-च्चार्यमाणः स्वरो भवेत् ॥ अ० । अ० । अ० । इत्यादि ॥१२०|| द्रुता विलम्बिता मध्या त्रिधेत्युच्चारवृत्तयः । अभ्यास उपदेशे च प्रयोगे च विनिश्रिता ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44