Book Title: Matruka Prakaranam
Author(s): 
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 20
________________ 24 यथाक्रममिति ॥१२१॥ ह्रस्व-दीर्घप्लुता एक - द्वि- त्रिमात्रा यथाक्रमम् । अ इ उ ऋ लृ । ए १ ऐ १ ओ १ औ १ । आ ई ऊ ऋ लृ ए ऐ ओ औ । आ ३ ई ३ ऊ ३ ऋ ३ लृ ३ ए ३ ऐ ३ ओ ३ औ ३ इति ॥ १२२॥ व्यञ्जनं त्वर्द्धमात्रं स्यात् । क ख ग घ ङ् इत्येवं हकारान्ताः ॥ १२३ ॥ मात्राकालो निमेषकः । नेत्रस्पन्दनपरिमाण इत्यर्थः ॥ १२४॥ परिपूर्णमनुत्पाद्य नार्द्धशब्दः प्रवर्तते । देशप्रदेशनिर्णीति-र्न स्कन्धेन विना यतः ॥१२५॥ पूर्विणोऽन्तुर्मुहूर्तेऽपि सर्वे सिद्धान्तपारगाः । रोगिणस्त्वक्षमा वक्तुं निमेषोऽन्यानपेक्षताम् ॥ १२६॥ एकमात्रं वदेच्चाषो द्विमात्रं वक्ति वायसः । त्रिमात्रं बर्हिणो ब्रूयान्नकुलः सोऽर्द्धमात्रिकम् ॥१२७|| स्मृत्वैव निनदाणूनां ह्रसनान्मुखदारणात् । आलोकान्तं प्लुतेश्चाहु-स्त्रैधमेषु समेष्वपि ॥ १२८।। दूरादामन्त्रणे प्रश्ने प्रश्नाख्याने च भर्त्सने । सम्मत्यसूयाकोपादौ यथायोगं स्वराः प्लुताः ॥ देवदत्त ३ एहि । जिनदत्त ३ किं करोषि ? | सोमदत्त ३ राजानं पश्यामि । इत्यादि ॥ १२९ ॥ Jain Education International ऋकारं वर्जयित्वैकं सर्वस्यापि गुरोरिह | पर्यायेण प्लुतत्वं स्यादपर्यन्तेऽपि तिष्ठतः ॥ दे ३ वदत्त । देव ३ दत्त । देवद ३ त । देवदत्त ३ । ऋकारवर्जनात् कृ २ ष्टिः । वृ २ क्णं । इत्यादि ॥ १३० ॥ उरः कण्ठस्ततो जिह्वा मूलं तालु च मस्तकम् । दन्ता ओष्ठौ च नक्रं च वर्णानामष्ट भूमयः ॥ नहि दन्तेन दन्ताभ्यां वार्थ सततो (वार्थस्ततो ) बहुत्वम् ॥ १३१ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44