Book Title: Malaysundari Charitram
Author(s): Jaytilaksuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
यूयं कुटुम्बसंयुक्ताः, पित्तं शाम्यतु सर्वथा ॥३६०॥ भीताः सर्वेऽपि मौनने, यावत्तस्थु पादयः । तावदुद्घाटयांचक्रे, सिद्धेनाम्रकरण्डकः ॥ ६१ ॥ द्वित्राण्यादाय चूतानि, भूपमापृच्छय चागमत् । पार्श्वे मलयसुन्दर्या, दुःखिताया नृपात्मजः ॥ ६२ ॥ ततोऽसौ हृष्टहृदया, मयूरीव धनागमे । प्रतिपत्तिं विधायोचैः, पप्रच्छोदन्तमेतकम् ॥ ६३ ॥ स स्माह वल्लभे ! पूर्व, यो योगी वह्निकुण्डके । दग्धः परिचितो मे स, मृत्वाऽत्र व्यन्तरोऽभवत् ॥ ६४ ॥ स चूते निवसत्यत्र, भागधेयेन नौ प्रिये ! । प्रजल्पन्निपतंश्चापि, तेनाहमुपलक्षितः ॥ ६५ ॥ स्वकराभ्यां ततस्तेन, प्रतीष्टोऽहं द्रुतं पतन् । उक्तश्योपकृतेः कर्त्ता, मा भीरत्वं नृपनन्दन ! ॥ ६६ ॥ आत्मीयः कथितस्तेन, वृत्तान्तः । वो मयापि च । इति संलपतो रात्रिर्व्यतीयायावयोईयोः ॥ ६७ ॥ व्यन्तरेण ततस्तेनाभाणि त्वं भो भवातिथिः । कुमारेष्टातिथे! किं किं, तवातिथ्यं करोम्यहम् ॥ ६८ ॥ मयोचे कार्यसंसिद्धया, कन्दर्पस्य नरेशितुः । नियूंढगीर्यथाऽहं स्या, विधेहि त्वं तथा सुर ! ॥ ६९ ॥ ततोऽभाणि सुरेणैष, नृपतिस्त्वां जिघांसति । शिक्षयाम्यहमेवं तं, यद्यत्र संमतं भवेत् ॥ ३७० ॥ मयोक्तमियताऽप्येष, विरुद्धव्यसनाद्यदि । न निर्वस्य॑ति तत्सर्वमपि तस्य विधास्यते । ॥ ७१ ॥ यदा कदापि दुःसाध्यं, किञ्चित्ते स्यात्प्रयोजनम् । तदाऽहं स्मृतमात्रोऽपि, करिष्यामि सहायताम् ॥ ७२ ।।
Jain Education in
For Private Personel Use Only
Hijainelibrary.org

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200