Book Title: Malaysundari Charitram
Author(s): Jaytilaksuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
म. सु.
॥९५॥
Jain Education
न्द्रोऽपि कुर्वाणो मन्त्रिभिर्भृशम् । सम्बोधितोऽपि नात्याक्षीत्क्षणमात्रमपि क्वचित् ॥ ७८० ॥ ज्ञात्वा तातस्य तादृक्षं, दुस्सहं मरणं ततः । सहस्रबलभूपोऽपि न्यमज्जत् शोकसागरे ॥ ८१ ॥ द्वयोरपि तयो राज्ञोः, पितृशोकभरा | भृशम् । रामलक्ष्मणवत्कृष्णबलदेववदस्फुरत् ॥ ८२ ॥ इतश्चामलचारित्रा, साध्वी मलयसुन्दरी । एकादशा - ङ्गभावज्ञा, प्रतिबोधपरायणा ॥ ८३ ॥ तप्यमाना तपस्तीव्रं कर्ममर्मच्छिदोद्यता । कृतोत्पन्नावधिज्ञाना, गुरुभिः श्रीमहत्तरा ॥ ८४ ॥ सत्सन्देहतमांसीह, जघानाऽर्कप्रभेव सा । वित्रस्तकुमतोलूका, भव्याम्भोजप्रबोधिका ॥ ८५ ॥ महाबलमुनेर्ज्ञात्वा, निर्वाणं तनयं निजम् । प्रबोधयितुमायाता, पुरे तत्र महत्तरा ॥ ८६ ॥ वसतावुचितायां सा स्थिता साध्वीसमन्विता । राज्ञा शतबलेनैत्य, महाभक्त्या च वन्दिता ॥ ८७ ॥ आलापितो महाराजः, प्रसन्नाननया तया । गिरा मधुरया श्रोतृश्रवणामृतकुल्यया ॥ ८८ ॥ पिता तव नराधीश !, महासत्त्वशिरोमणिः । उपसर्गे स्त्रियास्तस्याः प्रपेदे शिवसम्पदम् ॥ ८९ ॥ सर्वे कलत्रपुत्रादि त्यज्यते यस्य हेतवे । सह्यते च महादुःखं, | तपोलोचक्रियादिकम् ॥७९० ॥ दुर्लभं यदि तत्प्राप्तं, स्थानं शाश्वतमुत्तमम् । त्यक्तो भवश्च पित्रा ते, शोकोऽद्यापि ततः कथम् ॥ ९१ ॥ महानिधानमाप्नोति, यद्यभीष्टो जनो निजः । विजृम्भते महाशोकः, तत्किं कस्यापि मानसे ? ॥ ९२ ॥
tional
For Private & Personal Use Only
म का०
॥ ९५ ॥
ww.jainelibrary.org

Page Navigation
1 ... 194 195 196 197 198 199 200