Book Title: Malaysundari Charitram
Author(s): Jaytilaksuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 199
________________ Jain Education नातू । बभूव गोष्पदं स्थाने, स्थाने व्यसनसागरः ॥ १८ ॥ तथाऽन्येषामपि ज्ञानमाधारः सङ्कटे भवेत् । ज्ञानाभ्यासः सदैवातः, कर्त्तव्यः सुविवेकिभिः ॥ १९ ॥ यथा मलयसुन्दर्या, पालितं शीलमुज्ज्वलम् । सङ्कटेऽपि तथाऽन्याभिः, | पालनीयं प्रयत्नतः ॥ ८२ ॥ उपसर्गेऽपि तादृक्षे, महाबलमुनीन्दुना । यथा चक्रे क्षमा वर्या, कर्त्तव्याऽप्यपरैस्तथा ॥ २१॥ यथा ताभ्यां व्रतं तीव्रं, दम्पतीभ्यां विनिर्मितम् । अन्यैरपि तथा कार्य, सिद्धिसौख्याभिलाषुकैः ॥ २२ ॥ आशातना यथा ताभ्यां विदधे पश्चिमे भवे । दुःखहेतुर्मुनीन्द्रस्य, कर्त्तव्या न तथैव सा ॥ २३ ॥ श्रीमत्पार्श्वजिनेन्द्रनिर्वृतिदिनाद्याते समानां शते, सञ्जज्ञे नृपनन्दना मलयतः सुन्दर्यसौ नामतः । एतस्याश्चरितं यथा गणभृता प्रोक्तं पुरा केशिना, श्रीमत्शङ्खनरेश्वरस्य पुरतोऽप्यूचे मयेदं तथा ॥ ८२४ ॥ ional इत्यागमिकश्रीजयतिलकसूरिविरचिते ज्ञानरत्नोपाख्याने मलयसुन्दरीचरित्रे शीलावदातपूर्वभववर्णनो नाम चतुर्थः प्रस्तावः । सम्पूर्ण श्रीमलयसुन्दरीचरित्रम् ॥ XXX इति श्रेष्ठि देवचन्द्र लालभाई - जैनपुस्तकोडारे - ग्रन्थाङ्क: ३४. For Private & Personal Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 197 198 199 200