Book Title: Malaysundari Charitram
Author(s): Jaytilaksuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
॥९४॥
म. सु.
ज्वलितो भृशम् ॥५४॥ मुनिनापि तदा ज्ञात्वोपसर्ग मरणान्तिकम् ।विहिताऽऽराधना चित्ते, तथैव स्थितिमीयुषा ॥५५॥ म. का. ततः प्रज्वलितो वहिर्मुनिं दग्धं समन्ततः । प्रारंभे मूलतस्तस्याः, सुकृतस्येव सञ्चयम् ॥ ५६ ॥ महाबलमुनिः सम्यगुपसर्ग सुदुस्सहम् । सहमानस्तमात्मानं, लग्नो बोधयितुं ततः ॥ ५७ ॥ रे जीव! भवता प्राप्तप्रायं तीर भवाम्बुधः। शुभभावमहापोतः, चारितेन चिरादिह ॥ ५८ ॥ ततः सद्भावनापोतमेतं सच्चित्तवायुना । तथा प्रेरय रे जीव !, यथाशु लभते तटम् ॥ ५९ ॥ दुःखानि यानि सोढानि, भवता नरकादिषु । तानि चिन्तयतो दुःखं, तवेदं जीव ! |
कीदृशम् ? ॥७६०॥ मा चिन्तयाशुभं किंचित् , त्वमस्या उपरि स्त्रियाः । येनैषा ते सखा कर्मवनोन्मूलनकर्मणि ॥ Man ६१ ॥ बाह्याङ्गं ज्वलयन धर्मदेहमभ्यन्तरं न च । ज्वलनोऽप्यहितं किञ्चित्करोत्येष न तेऽधुना ॥ ६२ ॥
इत्थं तथा भृशं तस्य, प्रवृत्ता शुभभावना । उत्पन्नं केवलं ज्ञानं, घातिकर्मक्षयाद्यथा ॥ ६३ ॥ शुक्लध्यानानलमध्ये, बहिश्च ज्वलितेऽनले । भवोपग्राहिकर्माणि, भस्मीकृत्य क्षणादपि ॥६४॥ अन्तकृत्केवलीभूत्वा, स साधुः । प्राप निर्वृतिम् । जन्ममृत्युजरादीनां, ददौ चाशु जलाञ्जलिम् ॥६५॥ युग्मम् ।ज्वलने ज्वलितप्राये, कांदिशिका गता कवचित् । पापिष्ठा कनकवती, सा भ्रष्टा शभकर्मतः ॥ ६६ ॥ सञ्जाते च प्रभाते स, यावत्शतबलो नृपः । तत्रा
in Ede
For Private Personal Use Only
V
w
.jainelibrary.org

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200