Book Title: Malaysundari Charitram
Author(s): Jaytilaksuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
म. सु.
७८ ॥
Jain Education Int
मेऽस्तु साहसम् ॥४७॥ इति जल्पन् रसालं तं, लक्षीकृत्य स साहसी । झम्पालम्पातमातेने, लोके हाहारखे सति ॥ ४८ ॥ पतन वेगेन शृङ्गात् स, क्षणेनागाददृश्यताम् । कुमाराहितकर्तॄणां मूलतः पुण्यराशिवत् ॥ ४९ ॥ अहो अन्याय !! आः पापमस्यास्थीनि पृथग् पृथग् । भूत्वा किञ्चिद्भविष्यन्ति गतान्यमिलितानि वै ॥ ३५० ॥ इति ब्रुवन्तस्ते सर्वे, शङ्कमानास्त्वमङ्गलम् । नरेन्द्रस्य पुरस्यापि व्यावृत्य स्वगृहान ययुः ॥ ५१ ॥ राजपुम्भिः समाख्याते, निःशेषे नृपमन्त्रिणौ । कृतार्थ मन्यमानौ स्वं गमयामासतुर्निशाम् ॥ ५२ ॥ सञ्जातेऽथ प्रभाते स, सिद्धो मध्येपुरं वहन् । शिरस्या म्रफलाकीर्णे, करण्डं पुनराययौ ॥ ५३ ॥ महात्मा जीवितो नूनमेष देवानुभावतः । कृतभूपालकर्त्तव्यः, क्षेमेणात्र समागतः ॥ ५४ ॥ ब्रुवाणैरिति दृष्टास्यैर्विस्मितैर्मिलितैः पथि । अनेकधा पृच्छयमानः, स्थाने स्थाने पुरीजनैः ॥ ५५ ॥ प्रष्टव्यं नाधुना किञ्चिद्युष्माभिस्तानिति ब्रुवन्। जनैः परिवृतो राज्ञः समीपे स ययौ पुमान् ॥५६॥ त्रिभिर्विशेषकम् । कृष्णास्येनातिभीतेन, विस्मितेन च भूभुजा । यावदाभाषितः किञ्चित्स पुमांस्तत्र संसदि ॥ ५७ ॥ मन्त्रिणा ९ ॥ ७८ ॥ तावदाख्यायि, कृत्वा कार्ये सुदुष्करम् । हे सिद्ध ! त्वं किमायासीः, कुशलेनात्र सत्वरम् ? ॥ ५८ ॥ एवमित्यालपन्नेष, | शीर्षादुत्तार्य मुक्तवान् । सहकारकरण्डं तं तयोरासीनयोः पुरः ॥ ५९ ॥ ऊचे चैतानि चूतस्य, फलान्यादद्ध्वमत्र च ।
For Private & Personal Use Only
म. का.
jainelibrary.org

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200