Book Title: Malaysundari Charitram
Author(s): Jaytilaksuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पातकमर्जितम् । पश्चात्तापं वितन्वयां, पश्चात् क्षिप्तं पुनर्बहिः॥९०॥पञ्चभिः कुलकम्। किञ्चनोद्गरितं यच्च, प्राप्तस्तस्यानुभावतः । वियोगो निजलोकेभ्यो, द्वाभ्यामाभ्यां त्रिरुच्चकैः ॥ ९॥ पश्चात्कनकवत्याश्च, वैरिण्याः पूर्वजन्मनः । राक्षसीत्वकलोऽस्या, निर्दोषाया अजायत ॥ ९२ ॥ आभ्यां सेहे महादुःखं, स्वस्वकर्मानुमानतः । येनानुभूतमेवात्र, बलवत्कर्म निर्जरेत् ॥ ९३ ॥ पुरा मलयसुन्दर्या, यद्रजोहरणं हृतम् । मुनिहस्तादभूत्तेन, वियोगः सह ।। सूनुना ॥ ९४ ॥ उपसर्गान् पुरा कृत्वाऽमुभ्यामाराधितो मुनिः । उत्पन्नकेवलज्ञानो, महाराजाहमेव सः ॥ ९५ ॥ अस्या मलयसुन्दर्याः, कुमारस्य च सम्प्रति । द्वितीयं जन्म राजेन्द्र, ! भवरत्वेकः स एव मे ॥ ९६ ॥ राजोचे भग-1 वंस्ते हे, सुरी कनकवत्यपि। एतयोर्वत्सयोः किञ्चिदतोऽप्यपकरिष्यतः १ ॥ ९७ ॥ सूरिरूचे यदा राजन, ! कुमारेणा-11 हता सरी । गतोपशान्तवैरा सा, तदैव निजमास्पदम् ॥ ९८ ॥ भ्रमन्ती कनकवती, साऽत्रैव नगरे पुनः । उपद्रोष्यत्यमुं राजन्नेकशस्तव नन्दनम् ॥ ९९ ॥ ततः कनकवत्येषा, व्यन्तरी साप्युभे अपि । संसारमर्जितैनस्के, अनन्तं
पर्यटिष्यत ॥ ७०० ॥ राजन् ! मलयसुन्दर्या, महाबलनृपस्य च । यस्त्वया प्राग्भवः पृष्टः, स मया कथितोऽखिलः Plu १ ॥ एवं मलयसुन्दर्या, महाबलनृपस्य च । निशम्य चरितं सर्वे, बभूवुर्भवनिःस्पृहाः ॥ २ ॥ दम्पतीभ्यां ।
Jain Education 1
For Private & Personel Use Only
O
w.jainelibrary.org

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200