Book Title: Malaysundari Charitram
Author(s): Jaytilaksuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 191
________________ सेनापतिं निजम् । साई शतबलेनागात् , स्वपुरं च महाबलः ॥ १६ ॥ राज्यं च पालयामास, जितदुर्जयशात्रवः । सकुटुम्बः सिषेवे च, जिनधर्ममहर्निशम् ॥ १७ ॥ तस्य व्यन्तरदेवस्य, साहाय्याद्विषयान् बहून् । वशीचकार चक्रे च, जिनधर्मसमुन्नतिम् ॥ १८ ॥ प्रासादान कारयामास, जिनानां च पुरे पुरे । स्मरन् पूर्वभवं. चक्रे, साधुभक्तिं च सर्वदा ॥ १९ ॥ द्वितीयोऽथ तयोः पुत्रः, सहस्रबलसंज्ञितः । कालक्रमेण सञ्जज्ञे, निजवंशधुरन्धरः ॥७२०॥ कृत्वा बहूनि वर्षाणि, राज्य वयसि पश्चिमे । स राज्ये स्थापयामास, सहस्रबलमंगजम्॥ २१ ॥ ततः सागरतिलके, वेलाकूले रमाकुले । राज्यं पालयति ज्येष्ठे, पुत्रे शतबलामिधे ॥ २२ ॥ पृथ्वीस्थाने क्रमायातं, राज्यं शासति सुन्दरम् । गुणज्येष्ठे कनिष्ठे च, सहस्रबलनामनि ॥२३॥ पादमूले गुरोर्भार्यायुक्तो राजा महाबलः । महोत्सवेन जग्राह, विधिना संयमश्रियम् ॥२४॥ त्रिभिर्विशेषकम् ॥ द्वावपि द्विविधां शिक्षा, शीलयन्तौ विजहतुः । साई गुरुजनैनित्यं, तप्यमानौ तपश्च तौ ॥२५॥ गत्वा गत्वा च तौ धर्मे, प्रेरयामासतुः सुतौ । वारयामासतुर्नित्यं, व्यसनासेवनात्पुनः ॥ २६ ॥ मन्यमानौ कृतार्थ स्वं, गुरुशिक्षाभिरन्वहम् । तावुभौ बान्धवौ जाती, दृढस्नेहौ परस्परम् ॥ २७ ॥ तथा च तावजायेतां, जिनधर्मैकतत्परौ । येऽन्येषां मार्गदेष्टारो, मार्गात् भ्रश्यन्ति ते हि किम् ? ॥२८॥ Jain Education a l For Private Personal Use Only Jw.jainelibrary.org

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200