Book Title: Malaysundari Charitram
Author(s): Jaytilaksuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 175
________________ घूयमानशैलौघे, खड्गखाट्कारदारुणे ॥ ११ ॥ मूर्च्छच्छुरीछणत्कारे, दण्डभाट्कारभीषणे । त्रटनटिति कुर्वाणे, तनुत्राणगणे रणे॥१२॥ कम्पिताः कातराः कामं, सूराश्चोडसिता भृशम् । उध्धूषिताङ्गोमाणः, कृतपक्षा इवाजये ॥१३॥ त्रिभिर्विशेषकम् । खड्गाखगि कचित्तत्र, दण्डादण्डि शराशरि । कुन्ताकुन्ति तथा कापि, प्रावर्त्तत गदागदि ॥१४॥ केशाकेशि तथा क्वापि, दन्तादन्ति लतालति । मुष्टामुष्टि तथा वापि, मुद्गरामुद्गरि क्वचित् ॥ १५ ॥ वर्त्तमाने रणेऽत्रैवं, क्षयकालकरालभृत् । सिद्धराजबलं भग्नं, स्तोकत्वाद् वलितं ततः ॥ १६ ॥ रणरङ्गगजारूढः, स्थिरीकुर्वन्निजं. बलम् । हक्कया त्रासयन्नन्यान् , भटान सङ्ग्रामलम्पटान् ॥ १७ ॥ सिद्धराजस्ततो वेगात्, स्वयं योद्धं प्रचक्रमे । सरपालस्तथा विश्वालङ्कारगजसंस्थितः॥१८॥ त्रिभिर्विशेषकम् । सङ्ग्रामतिलकं नाम, गजमारुह्य तत्क्षणम् । श्रीवीर. धवलोऽप्युच्चैः, प्रहर्तुमुपचक्रमे ॥ १९ ॥ सिद्धराजस्मृतोऽप्याशु, स त्वाप्तो व्यन्तरामरः । आत्मानं ज्ञापयित्वा च, सहायं कर्तुमुद्यतः ॥ ५२० ॥ आयन्ति परशस्त्राणि, गृहीत्वाऽर्द्धपथेऽपि सः । अर्पयामास गीर्वाणः, सिद्धराजाय । सत्वरम् ॥ २१ ॥ शरासारं तदा मुञ्चन्, सिद्धराजो घनाघनः । सर्वानुड्डाययामास, राजहंसान रणाङ्गणे ॥ २२ ॥ चिच्छेद कौतुकेनैष, क्षुरप्रैः सायकैस्तयोः । चामराणि पताकाश्च, छत्रचिह्नानि लीलया ॥ २३ ॥ करात्तानि च । Jain Education indinal ller For Private & Personal Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200