Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji

View full book text
Previous | Next

Page 6
________________ काव्यमाला | श्रीरुद्रटप्रणीतः काव्यालंकारः । श्वेताम्बर जैनपण्डितनमिसाधुकृत टिप्पणसमेतः । G प्रथमोऽध्यायः । निःशेषापि त्रिलोकी विनयपरतया संनमन्ती पुरस्तायस्याङ्घ्रिद्वन्द्वसक्ताङ्गुलिविमलनखादर्शसंक्रान्तदेहा | निर्भीतिस्थानलीना भयदभवमहारातिभीत्येव भाति श्रीमान्नाभेयदेवः स भवतु भवतां शर्मणे कर्मभक्तः ॥ पूर्वमहामतिविरचितवृत्त्यनुसारेण किमपि रचयामि । संक्षिप्ततरं रुद्रटकाव्यालंकार टिप्पणकम् ॥ इह शास्त्रकारः शिष्टस्थितिपालनार्थमविघ्नेन शास्त्रसमाप्त्यर्थं च प्रथममेव तावद्गणनायकस्य स्तुतिमाह— अविरलविगलन्मदजलकपोलपालीनिलीनमधुपकुल: । उद्भिन्ननवश्मश्रुश्रेणिरिव गणाधिपो जयति ॥ १ ॥ गणाधिपो विनायको जयति सर्वोत्कर्षेण वर्तते । कीदृशः । अविरलं घनं विगलच्च तन्मदजलं दानाम्बु ययोस्ते, अविरलविगलन्मदजले च ते कपोलपाल्यौ च प्रशस्तकपोलौ च । पालीशब्दस्य समासे केशपाशवत्प्रशंसार्थत्वात् । तयोर्निलीनं श्लिष्टं मधुपकुल भ्रमरगणो यस्य सोऽविरलविगलन्मदजलकपोलपालीनिलीनमधुपकुल: । अत उत्प्रेक्षते - उद्भिन्नोद्गता नवा नूतना श्मश्रुश्रेणिर्मुखरोमसंस्थानविशेषो यस्य स उद्भिन्ननवरमश्रेणिः स इव ॥ १. स्त्रिस्तसंवत्सरीयैकादशशतकोद्भूतभोजदेवप्रणीते सरखतीकण्ठाभरणे ‘किं गौरि - मां प्रति रुषा' इत्याद्या रुद्रटश्लोकाः समुपलभ्यन्ते तेनैकादशशतकात्प्राचीनो रुद्रट:. २. नमिसाधुरस्य ग्रन्थस्य टिप्पणं १०६९ मिते ख्रिस्तसंवत्सरे रचितवानिति टिप्पणस-माप्तौ स्थितात् 'पञ्चविंशतिसंयुकैरेकादश समाशतैः । विक्रमात्समतिक्रान्तैः प्रावृषीद समर्थितम् ॥' इत्यस्माच्छ्रोकाज्ज्ञायते राजकीय संग्रहान्तर्वर्तिनि तालपत्रलिखिते टिप्पणपुस्तके तु 'षट्सप्ततिसंयुक्तैरेकादशसमाशतैः' इति पाठो वर्तते. अत्र तु छन्दोभङ्गः

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 188