________________
काव्यमाला |
श्रीरुद्रटप्रणीतः काव्यालंकारः ।
श्वेताम्बर जैनपण्डितनमिसाधुकृत टिप्पणसमेतः ।
G
प्रथमोऽध्यायः ।
निःशेषापि त्रिलोकी विनयपरतया संनमन्ती पुरस्तायस्याङ्घ्रिद्वन्द्वसक्ताङ्गुलिविमलनखादर्शसंक्रान्तदेहा | निर्भीतिस्थानलीना भयदभवमहारातिभीत्येव भाति
श्रीमान्नाभेयदेवः स भवतु भवतां शर्मणे कर्मभक्तः ॥ पूर्वमहामतिविरचितवृत्त्यनुसारेण किमपि रचयामि । संक्षिप्ततरं रुद्रटकाव्यालंकार टिप्पणकम् ॥
इह शास्त्रकारः शिष्टस्थितिपालनार्थमविघ्नेन शास्त्रसमाप्त्यर्थं च प्रथममेव तावद्गणनायकस्य स्तुतिमाह—
अविरलविगलन्मदजलकपोलपालीनिलीनमधुपकुल: ।
उद्भिन्ननवश्मश्रुश्रेणिरिव गणाधिपो जयति ॥ १ ॥
गणाधिपो विनायको जयति सर्वोत्कर्षेण वर्तते । कीदृशः । अविरलं घनं विगलच्च तन्मदजलं दानाम्बु ययोस्ते, अविरलविगलन्मदजले च ते कपोलपाल्यौ च प्रशस्तकपोलौ च । पालीशब्दस्य समासे केशपाशवत्प्रशंसार्थत्वात् । तयोर्निलीनं श्लिष्टं मधुपकुल भ्रमरगणो यस्य सोऽविरलविगलन्मदजलकपोलपालीनिलीनमधुपकुल: । अत उत्प्रेक्षते - उद्भिन्नोद्गता नवा नूतना श्मश्रुश्रेणिर्मुखरोमसंस्थानविशेषो यस्य स उद्भिन्ननवरमश्रेणिः स इव ॥
१. स्त्रिस्तसंवत्सरीयैकादशशतकोद्भूतभोजदेवप्रणीते सरखतीकण्ठाभरणे ‘किं गौरि - मां प्रति रुषा' इत्याद्या रुद्रटश्लोकाः समुपलभ्यन्ते तेनैकादशशतकात्प्राचीनो रुद्रट:. २. नमिसाधुरस्य ग्रन्थस्य टिप्पणं १०६९ मिते ख्रिस्तसंवत्सरे रचितवानिति टिप्पणस-माप्तौ स्थितात् 'पञ्चविंशतिसंयुकैरेकादश समाशतैः । विक्रमात्समतिक्रान्तैः प्रावृषीद समर्थितम् ॥' इत्यस्माच्छ्रोकाज्ज्ञायते राजकीय संग्रहान्तर्वर्तिनि तालपत्रलिखिते टिप्पणपुस्तके तु 'षट्सप्ततिसंयुक्तैरेकादशसमाशतैः' इति पाठो वर्तते. अत्र तु छन्दोभङ्गः