Book Title: Kavi Kaustubh
Author(s): Rajasthan Puratan Granthmala
Publisher: Rajasthan Puratan Granthmala

View full book text
Previous | Next

Page 14
________________ [ ६१-६८ ] मदनकवेः शृङ्गारकौमुद्याम् - कुचकोर कगुप्तिसादरा नववोढा न पर्ति तिरश्चकार । भयमीलितलोचना भृशं करपङ्केरुहबद्ध -- ॥ ६१ ॥ -V अत्र कुचकोरकगुप्तिसादरेति वर्णने, नवोढायाः कुचवर्णनं न संभवति । उक्तं च रसमञ्जर्यं [ श्लोकः ८ ] दरमुकुलितेति [ ॥ ६२ ॥ ] । अत्र करकलितकुचस्थलं न तु कुचाविति निदर्शनान्नवोढायाः कुचयोरभावे प्राप्ते [ रसमञ्जर्यं ७ मे पृष्ठे ] 'तत्राङ्कुरितयौवना मुग्धा' इति लक्षणादत्र मुग्धात्वहेतोरवस्था - " विरोधिदोषः । (१५.) द्रव्यभेदकं यथा - वाक्यदोषाः । विरोधिता भवेद्यत्र द्रव्याणां शिशिरादिनाम् । द्रव्यभेदं प्रशंसन्ति दोषं दोषविदो यथा ॥ ६३ ॥ दिवाकरकराः शीताः शरच्चन्द्रकरा इव । वेरिव विराजन्ते धर्माश्च शशिकान्तयः ॥ ६४ ॥ अन्यच्च, वराहमिहिरस्य शृङ्गारतरङ्गिण्याम्पीपं पुरुपले च चन्द्रकान्ते निक्षिप्तं विधुकिरणैर्भृशं चकोराः । प्रेम्णा ते चपलतया च पात्र कल्पे धर्माशोस्तरुणकरैर्घनीकृतं च ॥ ६५ ॥ अत्र चकोरा धर्मांशोस्तरुणकरैर्घनीकृतममृतं पपुरित्यन्वये तरुणकिरणैरित्युच्यमाने शीतोष्णद्रव्ययोर्युगपत्प्राप्तेरभावाद्द्रव्यमेददोषः । १६. ) देशविरोध यथा - यस्मिन देशे विरुद्धं यद्वर्णनं क्रियते च तत् । अलङ्कारविदा तत्र प्रोक्तं देशविरोधिकम् ।। ६६ ।। वहन्ति निम्नगा नित्यं प्रवाहैश्व मरुस्थले । मदोत्कटा गजा भान्ति मलयाद्रौ निरन्तरम् ॥ ६७ ॥ अन्यच्च धनञ्जयस्य कामप्रदीपे - घनतर नवविन्ध्यकाननालीकुसुममरुद्रतिखिन्नकिन्नरीणाम् । श्रममहरदयन् विलासिनीनां सुललितचन्दनपल्लवेषु भिन्नः ॥ ६८ ॥ The Ms. shows a lacuna here; space for four syllables is left blank २ अत्र चकोरक'. कवि ० २ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54