Book Title: Kavi Kaustubh
Author(s): Rajasthan Puratan Granthmala
Publisher: Rajasthan Puratan Granthmala
View full book text
________________
कविकौस्तुभः। [१०५-१०९] अत्रानुदितौषसरागो दिनान्तो दिनमुखेन तुल्यतामाययाविस्यन्वयेऽनुदितौषसराग इत्यत्र, कालाठ्ठञ् [ पाणिनेः, अष्टाध्याय्यां ४.३.११ ], ठस्येक [ पाणिनेः अष्टाध्याय्यां ७.३.५० ] इत्य-निषेधकविशेषसूत्रद्वयस्योपादानादौषसिक इति सिद्धं तत्परावृत्तिहेतोरलक्षणदोषः।
किरातार्जुनीये [ १३.५९]मार्गणैरथ तव प्रयोजनं नाथसे किमु पतिं न भूभृतः । त्वद्विधं सुहृदमेत्य सोर्थिनं किं न यच्छति विजित्य मेदिनीम् ॥ १०५॥
हे धनुर्धर मार्गणैस्तव प्रयोजनं तर्हि त्वैद्विधं सुहृदं भूभृतः पतिमेत्य किमु न नाथसे इत्यन्वये नाथसेऽत्र, नाथू याञ्चोपतापैश्वर्याशीःष्वयं धातुः, [ तस्य ] परस्मैपदधातुगणपठनात् परस्मैपदमेव सिद्धं तत्परावृत्यात्मनेपदप्रयोगादलक्षणदोषः । रसमजाम् [ श्लोकः १]
आत्मीयं चरणं दधाति पुरतो निम्नोन्नतायां भुवि
स्वीयेनैव करेण कषेति तरोः पुष्पं श्रमाशङ्कया। तल्पे किञ्च मृगत्वचा विरचिते निद्राति भागैर्निजै
रन्तःप्रेमभरालसां प्रियतमामङ्गे दधानो हरः ॥ १०६ ॥ अत्र हरः निनोन्नतायां भुवि पुरतः आत्मीयं चरणं दधातीत्यन्वये पुरत इत्यत्राप्रवाचकात्, न तु नगरवाचकात् 'पञ्चम्यास्तसिल्' [पाणिनेः, अष्टाध्याय्यां ५.३.७] इत्यनेन, पुरस्तात् सिद्धत्वात् पुरत इति वक्तुमशक्यत्वादलक्षणदोषः । तद्वत् कुमारे [५.७०]
इयं च तेऽन्या पुरतो विडम्बना
यदृढया वारणराजहार्यया । विलोक्य वृद्धोक्षमधिष्ठितं त्वया
महाजनः स्मरमुखो भविष्यति ॥ १०७ ॥ तत्रापि [ कुमारसंभवे ६.८१]
प्रणम्य शितिकण्ठाय विबुधास्तदनन्तरम् । ___ चरणौ रञ्जयन्त्वस्याश्चडामणिमरीचिभिः ॥ १०८ ॥ अत्र ल्यब्योगे द्वितीयापेक्षायां तत्परावृत्तिहेतोरलक्षणेदोषः । ६४.) अगौरवं यथा
अर्थगौरवहीनं यत् तदगौरवमुच्यते ।
प्रतापो राजते राजन् दीपवत् ते महीतले ॥ १०९ ॥ १ कालाटुक् ठस्येक इत्यण . २ यति. ३ तद्विधं. ४ रजयंतोखा. ५ लक्षणं दोषः
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54