Book Title: Kavi Kaustubh
Author(s): Rajasthan Puratan Granthmala
Publisher: Rajasthan Puratan Granthmala

View full book text
Previous | Next

Page 19
________________ १४ कविकौस्तुभः । [ ९४-९८ ] अत्र काव्यं यशस इत्याद्यन्वये कृते शिवेतरक्षतय इत्यत्र इतरक्षति - शब्दवैयर्थ्यादधि पददोषः । १९. ) हीनोपमं यथा - उपमेयेन सादृश्यमुपमानस्य वर्ण्यते । परगामित्वहेतोस्तद्वाक्यं हीनोपमं विदुः ॥ ९४ ॥ समुद्रमेखलां पृथ्वीं वशीकर्तु क्षमं तव । सामन्तवन्दनीया राजते भुजपङ्कजम् ।। ९५ ।। अन्यच्च, सारद्र्याम् [ =विवाहपटले १ मः श्लोकः ] - सुरासुरैर्वन्दितपादपद्मं शिवात्मजं भक्तजनस्य शंदम् । तं विघ्नराजं प्रणतोऽस्मि नित्यं वागीश्वरीं देवगुरुं शिवं च ॥ ९६ ॥ अत्र सुरासुरैर्वन्दितपादपद्मं तं विघ्नराजं प्रणतोऽस्मीत्यन्वये पादपद्ममित्यत्रोपमेयेनोपमानसादृश्यादत एव परगामित्वे सति केवलं पद्मस्यैव नतिरिति व्यज्यत इति हेतोर्हीनोमदोषः । ॥ इति वाक्यदोषाः ॥ [ २. अथ पददोषाः । ] (१.) सङ्केत प्रक्तार्थं यथा - स्वसङ्केत प्रक्लृप्तार्थ खज्ञेयं वक्ति यत् पदम् । कुधजिन्नीलतेजोभिद्येतन्ते शैलभूमयः ॥ ९७ ॥ अन्यच्च, किरातार्जुनीये [ १.४०] अनारतं यौ मणिपीठशायिनावरञ्जयद्राजशिरःस्रजां रजः । "निषीदतस्तौ चरणौ वनेषु ते मृगद्विजालूनॅशिखेषु बर्हिषाम् ।। ९८ ।। अत्र राजशिरःस्रजां रजो मणिपीठशायिनौ 'यौ ते चरणावनारतमरञ्जयत् तौ ते चरणाविदानीं मृगद्विजानशिखेषु बर्हिषां वनेषु निषीदत इत्यन्वये मणिपीठशायिनावित्यत्र शयाते तो शायिनाविति शी - धातोरर्थप्रतिपादकत्वे सति कविना खसङ्केतप्रक्लृप्ततया स्वार्थ परित्यज्य वर्तमानार्थत्वनिक्षेपात् स्वसङ्केतप्रक्लृप्तार्थदोषः । १ देवगुरु. २ सति केवलं. ३ द्योतते. ४ निषिदतस्तै ५ द्विजालुन° ६ शामिणौ. ७ डिजालुन Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54