________________
१४
कविकौस्तुभः ।
[ ९४-९८ ]
अत्र काव्यं यशस इत्याद्यन्वये कृते शिवेतरक्षतय इत्यत्र इतरक्षति - शब्दवैयर्थ्यादधि
पददोषः ।
१९. ) हीनोपमं यथा -
उपमेयेन सादृश्यमुपमानस्य वर्ण्यते । परगामित्वहेतोस्तद्वाक्यं हीनोपमं विदुः ॥ ९४ ॥ समुद्रमेखलां पृथ्वीं वशीकर्तु क्षमं तव । सामन्तवन्दनीया राजते भुजपङ्कजम् ।। ९५ ।। अन्यच्च, सारद्र्याम् [ =विवाहपटले १ मः श्लोकः ] - सुरासुरैर्वन्दितपादपद्मं शिवात्मजं भक्तजनस्य शंदम् । तं विघ्नराजं प्रणतोऽस्मि नित्यं वागीश्वरीं देवगुरुं शिवं च ॥ ९६ ॥
अत्र सुरासुरैर्वन्दितपादपद्मं तं विघ्नराजं प्रणतोऽस्मीत्यन्वये पादपद्ममित्यत्रोपमेयेनोपमानसादृश्यादत एव परगामित्वे सति केवलं पद्मस्यैव नतिरिति व्यज्यत इति हेतोर्हीनोमदोषः ।
॥ इति वाक्यदोषाः ॥
[ २. अथ पददोषाः । ]
(१.) सङ्केत प्रक्तार्थं यथा -
स्वसङ्केत प्रक्लृप्तार्थ खज्ञेयं वक्ति यत् पदम् । कुधजिन्नीलतेजोभिद्येतन्ते शैलभूमयः ॥ ९७ ॥
अन्यच्च, किरातार्जुनीये [ १.४०]
अनारतं यौ मणिपीठशायिनावरञ्जयद्राजशिरःस्रजां रजः । "निषीदतस्तौ चरणौ वनेषु ते
मृगद्विजालूनॅशिखेषु बर्हिषाम् ।। ९८ ।।
अत्र राजशिरःस्रजां रजो मणिपीठशायिनौ 'यौ ते चरणावनारतमरञ्जयत् तौ ते चरणाविदानीं मृगद्विजानशिखेषु बर्हिषां वनेषु निषीदत इत्यन्वये मणिपीठशायिनावित्यत्र शयाते तो शायिनाविति शी - धातोरर्थप्रतिपादकत्वे सति कविना खसङ्केतप्रक्लृप्ततया स्वार्थ परित्यज्य वर्तमानार्थत्वनिक्षेपात् स्वसङ्केतप्रक्लृप्तार्थदोषः ।
१ देवगुरु. २ सति केवलं. ३ द्योतते. ४ निषिदतस्तै ५ द्विजालुन° ६ शामिणौ. ७ डिजालुन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org