________________
[८९-९३]
वाक्यदोषाः। ...११८.) अधिपदं यथा
चरितार्थे प्रयुक्तं यत् पदं चाधिपदं मतम् ।
यथा सा नः शिवं दद्यात् पार्वती पतिकामिनी ॥ ८८ ॥ अन्यच्च, किरातार्जुनीये [ १६.८]
रथाङ्गसङ्क्रीडितमश्वहेषा
बृंहन्ति मत्तद्विपबंहितानि । सङ्घर्षयोगादिव मूच्छितानि
हार्द निगृह्णन्ति न दुन्दुभीनाम् ॥ ८९ ॥ अत्र सङ्घर्षयोगान्मूर्छितानि रथाङ्गसङ्क्रीडिताश्वहेषामत्तद्विपबंहितानि श्रुत्वा दुन्दुभीनां "हादं न निगृहन्ति योद्धार इति शेष इत्यन्वयेऽश्वमत्तद्विपयोर्वैय्यर्थ्यम् । उक्तं च कविकल्पलतायां
सिञ्जितं भूषणारावे गजानां हितं मतम् ।
गुञ्जारवो मिलिन्दानां हेपा हेपा च वाजिनाम् ॥ ९॥ इति कविरूढनियमात् पदद्वय॑स्य व्यर्थतया इव-शब्दस्यापि प्रयोजनहीनत्वादधिपददोषः रघुवंशे [६.२२]
कामं नृपाः सन्ति सहस्रशोऽन्ये
राजन्वतीमाहुरनेन भूमिम् । नक्षत्रताराग्रहसङ्कुलापि
ज्योतिष्मती चन्द्रमसैव रात्रिः ॥ ९१ ॥ अत्र रात्रिर्नक्षत्रताराग्रहसङ्कुलापि चन्द्रमसैव ज्योतिष्मतीव वर्तत इत्यन्वये नक्षत्राणि च ताराश्च महाश्चेत्युपादाने तारा-शब्दस्य वैय्यादधिपददोषः । अन्यच्च, शिरोमणिव्याख्यायां [ श्लोकः २] शिरोमणिभट्टाचार्यः -
अध्ययनभावनाभ्यां सारं निर्णीय सकलतत्राणाम् । दीधितिमधि चिन्तामणि तनुते तार्किकशिरोमणिः श्रीमान् ॥ ९२ ॥ अत्र चिन्तामणौ दीधितिव्याख्यां तनुत इत्यन्वये वाक्यचरितार्थत्वात् श्रीमान्-पदस्य वैयर्थ्यादधिपददोषः । अन्यच्च, काव्यप्रकाशकृन्मम्मटः [ १.१] -
काव्यं यशसेऽर्थकृते व्यवहारविदे शिवतरक्षतये ।
[संद्यः परनिर्वृतये ] कान्तासम्मिततयोपदेशयुजे ॥ ९३ ॥ मूर्छिकानि. २ हादं. ३ मूर्छितानि. ४ ल्हादं. ५ बृहितं. ६ हषा हेषा 'च, ७ राचिनामिति. ८ पदद्वयोर्व्यर्थ. ९ सद्यः परनिर्वृतये-these words are omitted in the Ms.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org