________________
कविकौस्तुभः।
[८३-८.] अन्यच्च, रघुवंशे [ ३.८]
दिनेषु गच्छत्सु नितान्तपीवरं ___तदीयमानीलमुखं स्तनद्वयम् । तिरश्चकार भ्रमरावलीढयोः
सुजातयोः पङ्कजकोशयोः श्रियम् ॥ ८३ ॥ अत्र तदीयं स्तनद्वयं पङ्कजकोशयोः श्रियं तिरश्वकारेत्यन्वये तर्हि पङ्कजकारणं कोशः सम्भवति न तु कोशकारणं पङ्कजं चेद्विकासादनन्तरं कोशोत्पत्तिस्तर्हि पर्युषिते भ्रमरा न सम्भवन्तीति हेतुवैपरीत्याद्धेतुविरोधिदोषः । तथा च [ रघुवंशे ५.७२ ] -
शय्यां जहत्युभयपक्षविनीतनिद्रा
स्तम्बेरमा मुखरशृङ्खलकर्षिणस्ते । येषां विभान्ति तरुणारुणरागयोगा
द्भिन्नाद्रिगरिकतटा इव दन्तकोशाः ॥ ८४ ॥ अत्र मुखरशृङ्खलकर्षिणस्ते स्तम्बेरमाः शय्यां जहतीत्यन्वये मुखरशृङ्खलकर्षिण इत्यत्र कर्मधारयसमासे कृते मुखरत्वकारणं कर्षणं न तु केवलशृङ्खले मुखरत्वमिति हेतुव्यस्तत्वाद्धेतुतिरोधिदोषः । '६१७.) खण्डितं यथा
अन्यवाक्यप्रवेशेन यद्यस्तं खण्डितं यथा ।
जनार्दनः शिवं दद्याद्भाता यस्य हलायुधः ॥ ८५ ॥ अन्यच्च, किरातार्जुनीये [५.३९]
उत्फुल्लस्थलनलिनीवनादमुष्मा
दुद्भूतः सरसिजसम्भवः परागः । वात्याभिर्वियति विवर्तितः समन्ता
दाधत्ते कनकमयातपत्रलक्ष्मीम् ॥ ८६ ॥ अत्र सरसिजसम्भवः परागः कनकमयातपत्रलक्ष्मीमाधत्त इत्यन्वये सति कीदृशः परागोऽमुष्मात् स्थलनलिनीवनादुद्भूत इत्यन्यवाक्यप्रवेशेन विच्छिन्नत्वात् खण्डितदोषः । रघुवंशे [ ४.२१]
प्रससादोदयादम्भः कुम्भयोनेर्महौजसः।
· रघोः परिभवाशति चुक्षुभे द्विषतां मनः ॥ ८७ ।। अत्रैकप्रबन्धे कुम्भयोनेरुदयादम्भः प्रससादेत्यन्वये सति रघोः परिभवाशक्ति द्विषतां मनश्वुटुंभ इत्यन्यवाक्यप्रवेशेन 'विच्छिन्नत्वात् खण्डितदोषः । १ गछत्सु. २ यद्यस्तं. ३ रघो परि. ४ मनश्रुक्षभ. ५ विछिन्नस्वारखं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org