SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ [७६-८२] वाक्यदोषाः। तथा च पतितोऽपि पिता त्याज्यो माता नैव कदाचन । गर्भधारणपोषाभ्यां तेन माता गरीयसी ॥७६ ॥ इति धर्मनीतिपरावृत्या न्यायविरुद्धदोषः । ६१५.) कालविरुद्धं यथा - यत्र कालोचितं वर्ण्यवर्णनं न भवेद्यदि । वदन्ति विबुधास्तत्र तत्तत्कालविरोधि च ॥ ७७॥ शिशिरे कोकिलारावो हेमन्ते शिखिनां स्वनः। वर्षासु कलहंसाश्च वसन्ते मालती यथा ॥ ७८ ॥ अन्यञ्च, धनञ्जयकवेः शृङ्गारमचर्याम् - ललिततरनिकुञ्जकेकिनादो विलसति शारदचन्द्ररश्मिजाले । सपदि समहरत् स सूर्यवध्वाः कलुषितचित्तमहो हि मानिनीनाम् ॥ ७९ ॥ अत्र केकिनादः शारदचन्द्ररश्मिजाले विलसति सति मानिनीनां कलुषितचित्तं समहरदिस्यन्वये शरद्वर्णने केकिनो न वर्णनीयाः । उक्तं च सप्तच्छंदतरुहंसाः पटुत्वं सूर्यचन्द्रयोः । जलाच्छता श्वेतघना मयूराणां मदात्ययः ॥ ८० ॥ एते पदार्थाः शरदि वर्णनीया इत्युक्ते मयूराणां मदात्यये सति कुतो नादप्रसङ्ग इति हेतोः कालविरुद्धदोषः। रघुवंशे [ ५.१ ]-तमध्वरेति ॥ ८१ ॥ ___ अत्र विश्वजिति अध्वरे निःशेषविश्राणितकोषजातमित्यत्र विश्वं जितवान् यस्मिन्नसौ विश्वजित् तस्मिन्नध्वरे निःशेषं विश्राणितं कोशजातं येन तमिति व्याख्यायां तर्हि जयविश्राणनयोरेककालाभावात् कालविरुद्धदोषः । ६१६.) हेतुविरुद्धं यथा हेतुव्यस्ततयाभावाज्ज्ञेयं हेतुविरोधि च । जगाम तरसा पत्री वाहिनीं प्रति शात्रवीम् ।। ८२ ॥ १ गरीयसीति. २ सप्तछद. ३ जलाछता. ४ श्ज्ञेयं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003431
Book TitleKavi Kaustubh
Original Sutra AuthorN/A
AuthorRajasthan Puratan Granthmala
PublisherRajasthan Puratan Granthmala
Publication Year1968
Total Pages54
LanguagePrakrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy