________________
कविकौस्तुभः ।
[ ६९-७५]
अत्र सुललितचन्दनपल्लवेषु मिन्नो मरुदित्युक्ते विन्ध्यादौ चन्दना न वर्णनीया
मलयाद्वावेवेत्युक्तं च -
१०
काम्बोजे वाजिनचैव विन्ध्याद्रौ दन्तिनस्तथा । भूर्जत्वचो हिमाद्रौ च चन्दनं मलये गिरौ' ॥ ६९ ॥ इति कविरूढनियमपरावृत्या देशविरुद्धदोषः । (१७.) कलाविरुद्धं यथा
चतुःषष्टिकला स्वित्थं विरोधो वर्ण्यते यदा । कलाविरोधि तज्ज्ञेयं वर्जितं रससङ्ग्रहे ॥ ७० ॥ वीरशृङ्गारयोर्भाव स्थायिनौ क्रोधविस्मयौ । करुणाहास्ययोश्चैव रतिभींती स्मृतौ यथा ॥ ७१ ॥ अन्यच्च, रसमञ्जर्यां [ श्लोकः ३ ] -
गतागतकुतूहलं नयनयोरपाङ्गावधि स्मितं कुलनत अवामधर एव विश्राम्यति । वचः प्रियतमश्रुतेरतिथिरेव कोपक्रमः
कदाचिदपि चेत्तदा मनसि केवलं मजति ।। ७२ ।।
अत्र कुलनतभ्रुवां वचः प्रियतमश्रुतेरतिथिरेव जायतेऽत्र तमम्प्रहणेनैको न्यूनस्नेहो -
योऽधिक स्नेहः कान्त इति प्राप्तौ परकीयात्वहेतोः कलाविरुद्धदोषः ।
१८.) न्यायविरुद्धं यथा
नीत्या विरोधि यद्वाक्यं तत् तु न्यायविरोधि च । विवेकन्यायसंपन्नः पितरं हन्ति चात्मजः ॥ ७३ ॥ प्रबोधचन्द्रोदये [ २.९]नास्माकं जननी तथोज्वलकुला सच्छ्रोत्रियाणां पुन
यूढा काचन कन्यका खलु मया तेनास्मि ताताधिकः । अस्च्छालक मित्र मातुलसुता मिथ्याभिशप्ता तत
स्तत्सम्बन्धवशान्मया स्वगृहिणी प्रेयस्यपि प्रोज्झिता ॥ ७४ ॥ अत्रास्माकं जननी उज्वलकुला न मया पुनः श्रोत्रियाणां कन्यका ऊढेति हेतोरहं ताधिक इति व्याहृते तर्हि उक्तं च हेमाद्रौ [ ]
मातृपितृसमं भूमौ दैवतं नैव विद्यते ।
सेवने तस्य पूज्यस्य कल्पान्तोऽपि कलायते ॥ ७५ ॥
अन्यच्च,
—
१ गिराविति कविरूढ'. २ अस्मत् शालक'. ३ प्रोझिता. ४ पुनः च्छ्रोत्रियाणां
५ तताधिक.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org