________________
[ ६१-६८ ]
मदनकवेः शृङ्गारकौमुद्याम् -
कुचकोर कगुप्तिसादरा नववोढा न पर्ति तिरश्चकार । भयमीलितलोचना भृशं करपङ्केरुहबद्ध -- ॥ ६१ ॥
-V
अत्र कुचकोरकगुप्तिसादरेति वर्णने, नवोढायाः कुचवर्णनं न संभवति । उक्तं च रसमञ्जर्यं [ श्लोकः ८ ] दरमुकुलितेति [ ॥ ६२ ॥ ] ।
अत्र करकलितकुचस्थलं न तु कुचाविति निदर्शनान्नवोढायाः कुचयोरभावे प्राप्ते [ रसमञ्जर्यं ७ मे पृष्ठे ] 'तत्राङ्कुरितयौवना मुग्धा' इति लक्षणादत्र मुग्धात्वहेतोरवस्था -
"
विरोधिदोषः ।
(१५.) द्रव्यभेदकं यथा -
वाक्यदोषाः ।
विरोधिता भवेद्यत्र द्रव्याणां शिशिरादिनाम् । द्रव्यभेदं प्रशंसन्ति दोषं दोषविदो यथा ॥ ६३ ॥ दिवाकरकराः शीताः शरच्चन्द्रकरा इव ।
वेरिव विराजन्ते धर्माश्च शशिकान्तयः ॥ ६४ ॥
अन्यच्च, वराहमिहिरस्य शृङ्गारतरङ्गिण्याम्पीपं पुरुपले च चन्द्रकान्ते निक्षिप्तं विधुकिरणैर्भृशं चकोराः । प्रेम्णा ते चपलतया च पात्र कल्पे धर्माशोस्तरुणकरैर्घनीकृतं च ॥ ६५ ॥
अत्र चकोरा धर्मांशोस्तरुणकरैर्घनीकृतममृतं पपुरित्यन्वये तरुणकिरणैरित्युच्यमाने
शीतोष्णद्रव्ययोर्युगपत्प्राप्तेरभावाद्द्रव्यमेददोषः ।
१६. ) देशविरोध यथा
-
यस्मिन देशे विरुद्धं यद्वर्णनं क्रियते च तत् । अलङ्कारविदा तत्र प्रोक्तं देशविरोधिकम् ।। ६६ ।। वहन्ति निम्नगा नित्यं प्रवाहैश्व मरुस्थले ।
मदोत्कटा गजा भान्ति मलयाद्रौ निरन्तरम् ॥ ६७ ॥
अन्यच्च धनञ्जयस्य कामप्रदीपे -
घनतर नवविन्ध्यकाननालीकुसुममरुद्रतिखिन्नकिन्नरीणाम् । श्रममहरदयन् विलासिनीनां
सुललितचन्दनपल्लवेषु भिन्नः ॥ ६८ ॥
The Ms. shows a lacuna here; space for four syllables is left blank २ अत्र चकोरक'.
कवि ० २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org