Book Title: Kavi Kaustubh
Author(s): Rajasthan Puratan Granthmala
Publisher: Rajasthan Puratan Granthmala
View full book text
________________
१८
कविकौस्तुभः । [११४-१९२ ' अत्र हे सुदति सुवाचं वदेल्यन्वये वाक्यार्थपरिपूर्ती सत्यां पुनर्वाचंयमत्वं मुश्चेति पदत्रयपैठनात् पुनरुक्तिदोषः । ६७.) असंमतं यथा
असंमतं यथा सार्थ शास्त्रान्तरविरोधि च ।
राजते भवनं भूप महीरहमरीचिभिः ॥ ११७ ॥ अन्यच्च, रघुवंशे [ ३.३० ]
धियः समग्रैः स गुणैरुदारधीः
क्रमाचतस्रश्चतुरर्णवोपमाः। ततार विद्याः पवनातिपातिभि
दिशो हरिद्भिहरितामिवेश्वरः ॥ ११८ ॥ अत्र स रघुः धियः समप्रैर्गुणैः क्रमाच्चतस्रो विद्यास्ततारेत्यन्वये धियो गुणैरित्यत्र बुद्धेरौदार्यधैर्यगाम्भीर्यशौर्येश्वर्योद्यमादिभिर्गुणैः कृत्वा विद्यास्ततार इति सार्थ सत् शास्त्रान्तरविरोधमाह । धियः चतुर्विंशतिगुणेष्वन्तर्भावत्वं भवति तर्हि गुणस्य गुण इति वक्तुमशक्यत्वादिति न्यायविरोधस्तस्माच्छास्त्रान्तरविरुद्धत्वादसंमतदोषः । ६८.) व्याहतार्थ यथा
इष्टार्थ बाधकार्थ यत्प्राप्नोति व्याहतार्थकम् ।
प्रतापेन महीं शास्ति नयेन वसुधाधिपः ॥ ११९ ॥ अन्यच्च, नैषधे [ २.६३]-..
तव वर्त्मनि वर्ततां शिवं पुनरस्तु त्वरितं समागमः ।
अपि साधय साधयेप्सितं स्मरणीयाः समये वयं वयः ॥ १२० ॥ भो वयस्तव वर्मनि शिवं वर्ततामित्यन्वय इतीष्टार्थे सति बाधकार्थमाह, भो वयः शिवं तव वम निवर्ततामिति बाधकार्थस्पष्टीकरणत्वाद् व्याहतार्थदोषः । ६९.) ग्राम्यं यथा -
यत्र यत्र न युक्तं यत् तत्र ग्राम्यं स्मृतं पदम् ।
रामा कटाक्षवाणेन निर्जघान प्रियं यथा ॥ १२१ ॥ अन्यच्च, कुवलयानन्दे [ श्लोकः ६ ]
उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः ।
हंसीव कृष्ण ते कीर्तिः खर्गङ्गामवगाहते ॥ १२२ ॥ - यत्र द्वयोः सौदृश्यलक्ष्मीरुल्लसति सा उपमा । अत्र सादृश्यलक्ष्मीः शोभा उल्लसति १ परिपूर्ति सत्या. २ वाचायमस्वं. ३ त्रय पपठनात्. ५-५-६ सादश्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54