Book Title: Kavi Kaustubh
Author(s): Rajasthan Puratan Granthmala
Publisher: Rajasthan Puratan Granthmala

View full book text
Previous | Next

Page 22
________________ .११०-११६] पददोषाः। अन्यच्च, रघुवंशे [ ३.५५] हरेः कुमारोऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशाङ्गुलौ । भुजे शचीपत्रलताक्रियोचिते स्वनामचिह्न' निचखान सायकम् ॥ ११० ॥ अत्र कुमारोऽपि सुरद्विपास्फालनकर्कशाङ्गुलौ हरे जे खनामचिह्नसायकं निचखानेत्यन्वये सुरद्विपास्फालनकर्कशाङ्गुलावित्यत्र सुराणां द्विपस्तर्हि सर्वेषां वाहनं' सम्भवति, सुरस्य इन्द्रस्य द्विपस्तहि प्रकृते हरि-शब्दस्योपादानं वर्तते तर्हि यथाकथञ्चिदर्थगौरवहीनवादगौरवदोषः। ६५.) श्रुतिकटु यथा - दुःसहं कर्णयोर्यच्च पदं श्रुतिकटु स्मृतम् । स्रष्ट्रा विनिर्मिता क्रोष्ट्री गर्हिताचरिता जनैः ॥ १११ ॥ अन्यच्च, लल्लमुहूर्तसारे - मार्तण्डरश्मिवृन्दाभं वेतण्डकलवक्त्रकम् । भर्गडिम्भं तमीडेऽहं विष्टपत्रयभूषणम् ॥ ११२ ॥ अत्र कठोर-शब्दप्रयोगेण कर्णयोर्दुःसहत्वाच्छृतिकटुदोषः । [अन्यच्च ] - अदभ्राभ्रमुसौहार्दनिगडेनं नियत्रितः । यत्रा द्राग्द्रावितो दन्ती बभूव प्रेमतत्परः ॥ ११३ ॥ अत्र कठोरशब्दप्रयोगेण कर्णयोर्दुःसहत्वाच्छुतिकटुदोषः । ६६.) पुनरुक्तिर्यथा पुनरुक्तिः पदं यत्र चरितार्थ नियोजितम् । भाति प्राग्दिशि पूर्णोऽसौ रजनीशो निशापतिः ॥११४ ॥ अन्यच्च, रघुवंशे [ १.६४ ] - त्वयेवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना । सानुबन्धाः कथं न स्युः सम्पदो मे निरापदः ॥ ११५॥ अत्र सम्पद इत्युच्यमाने निरापद इति पुनरुक्तत्वहेतोः पुनरुक्तिदोषः । भवभूतेः साहित्यरत्नाकरे - सुदति वद सुवाचं मुश्च वाचंयमत्वं प्रणयिनि मयि कोपं किङ्करे किं करोषि । यदि बत तव चित्ते सापराधोऽस्मि बाले निजभुजयुगवल्लया बन्धनं मे विधेहि ॥ ११६ ॥ चिन्हं. २ °चिन्ह. ३ वाहनं न संभवति. ४ प्रकृतो. ५ शृतिकटु. ६ सष्ट्रा. ७ चरिताजनिः. ८ तमिडे. ९ °च्छति'. १० निगडेम. १. तप्तर. १२ वाचायमस्वं. कवि०३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54