Book Title: Kavi Kaustubh
Author(s): Rajasthan Puratan Granthmala
Publisher: Rajasthan Puratan Granthmala
View full book text
________________
[९९-१०४]
पददोषाः। अन्यच्च, माधकाव्ये [ शिशुपालवधे ४.२६ ]
एकत्र स्फटिकतटांशुभिन्ननीरा
नीलाश्मद्युतिभिदुराम्भसोऽपरत्र । कालिन्दीजलजनितश्रियः श्रयन्ते
वैदग्धीमिह सरितः सुरापगायाः॥९९ ॥ अत्र वैदग्धीमित्यत्र कविना खसङ्केतप्रक्लृप्ततया मुख्यार्थ परित्यज्यान्यच्छोभाष पदं परिकल्प्य योजितमिति हेतोः खसङ्केतप्रक्लप्तार्थदोषः । . कङ्कणकवे पञ्चाशिकायाम् -
सिन्धुसनुपतेर्मित्रं तस्यायुधपतिश्च यः ।
तस्य कन्यासखीखेच्छं भाति ते कीर्तिमण्डलम् ॥ १० ॥ ते कीर्तिमण्डलं भाति; कीदृशं ? सिन्धुसूनुश्चन्द्रस्तत्पतिः शम्भुस्तन्मित्रं विष्णुस्तस्यायुधं पग्रं तत्पतिः सूर्यस्तत्कन्या यमुना तस्याः सखी गङ्गा तद्वत् खच्छमित्यत्र कवेः खज्ञेयपदनिक्षेपात् खसङ्केतप्रक्लप्तार्थदोषः । ६२.) अप्रसिद्धं यथा
प्रसिद्धार्थतया हीनमप्रसिद्ध स्मृतं बुधैः ।
शरच्चन्द्रनिभां गङ्गां जघान मुनिसत्तमः ॥१०१॥ __ अत्र कठोरशब्दप्रयोगेण कर्णयोर्दुःसहत्वाच्छुतिकटुदोषः ।। अन्यच्च, कुटुम्बकवेः प्रस्तावप्रबन्धे
दधाति चन्द्रः किरणैश्चकोरान्
क्षुधार्दितान् हन्ति तमः पयोधेः। करोति वृद्धि जलजप्रकाशं
सतां हि पुंसां प्रकृतिहिताय ॥ १०२॥ अत्र चन्द्रः किरणैः क्षुधार्दिताश्चकोरान् दधाति पोषणं करोतीति प्रकृत्यर्थे सति डुधाञ् धारणपोषणयोरयं धातुर्धारणार्थः प्रसिद्धो भवति, तत्परावृत्तिहेतोरप्रसिद्धदोषः । ३३.) अलक्षणं यथा
विरुद्धं शब्दशास्त्रेण विज्ञेयं तदलक्षणम् ।
सप्तद्वीपां यथा चासौ धरणिमवते नृपः ॥१०३ ॥ अन्यच्च, किरातार्जुनीये [ ९.८]
आकुलश्चलपतत्रिकुलानामारवैरनुदितौषसरागः ।
आययावहरिदश्वविपाण्डुस्तुल्यतां दिनमुखेन दिनान्तः॥ १०४॥ ... भियं. २ 'स्वछं. ३ °र्दितान् चकोरात्. धारणपोषण.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54