Book Title: Kavi Kaustubh
Author(s): Rajasthan Puratan Granthmala
Publisher: Rajasthan Puratan Granthmala

View full book text
Previous | Next

Page 15
________________ कविकौस्तुभः । [ ६९-७५] अत्र सुललितचन्दनपल्लवेषु मिन्नो मरुदित्युक्ते विन्ध्यादौ चन्दना न वर्णनीया मलयाद्वावेवेत्युक्तं च - १० काम्बोजे वाजिनचैव विन्ध्याद्रौ दन्तिनस्तथा । भूर्जत्वचो हिमाद्रौ च चन्दनं मलये गिरौ' ॥ ६९ ॥ इति कविरूढनियमपरावृत्या देशविरुद्धदोषः । (१७.) कलाविरुद्धं यथा चतुःषष्टिकला स्वित्थं विरोधो वर्ण्यते यदा । कलाविरोधि तज्ज्ञेयं वर्जितं रससङ्ग्रहे ॥ ७० ॥ वीरशृङ्गारयोर्भाव स्थायिनौ क्रोधविस्मयौ । करुणाहास्ययोश्चैव रतिभींती स्मृतौ यथा ॥ ७१ ॥ अन्यच्च, रसमञ्जर्यां [ श्लोकः ३ ] - गतागतकुतूहलं नयनयोरपाङ्गावधि स्मितं कुलनत अवामधर एव विश्राम्यति । वचः प्रियतमश्रुतेरतिथिरेव कोपक्रमः कदाचिदपि चेत्तदा मनसि केवलं मजति ।। ७२ ।। अत्र कुलनतभ्रुवां वचः प्रियतमश्रुतेरतिथिरेव जायतेऽत्र तमम्प्रहणेनैको न्यूनस्नेहो - योऽधिक स्नेहः कान्त इति प्राप्तौ परकीयात्वहेतोः कलाविरुद्धदोषः । १८.) न्यायविरुद्धं यथा नीत्या विरोधि यद्वाक्यं तत् तु न्यायविरोधि च । विवेकन्यायसंपन्नः पितरं हन्ति चात्मजः ॥ ७३ ॥ प्रबोधचन्द्रोदये [ २.९]नास्माकं जननी तथोज्वलकुला सच्छ्रोत्रियाणां पुन यूढा काचन कन्यका खलु मया तेनास्मि ताताधिकः । अस्च्छालक मित्र मातुलसुता मिथ्याभिशप्ता तत स्तत्सम्बन्धवशान्मया स्वगृहिणी प्रेयस्यपि प्रोज्झिता ॥ ७४ ॥ अत्रास्माकं जननी उज्वलकुला न मया पुनः श्रोत्रियाणां कन्यका ऊढेति हेतोरहं ताधिक इति व्याहृते तर्हि उक्तं च हेमाद्रौ [ ] मातृपितृसमं भूमौ दैवतं नैव विद्यते । सेवने तस्य पूज्यस्य कल्पान्तोऽपि कलायते ॥ ७५ ॥ अन्यच्च, — १ गिराविति कविरूढ'. २ अस्मत् शालक'. ३ प्रोझिता. ४ पुनः च्छ्रोत्रियाणां ५ तताधिक. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54