Book Title: Kavi Kaustubh
Author(s): Rajasthan Puratan Granthmala
Publisher: Rajasthan Puratan Granthmala
View full book text
________________
कविकौस्तुभः ।
[५४-६०] अत्र पूर्वात् पूर्वात् पराहतार्थसम्बन्धात् पशुवधे शस्त्रवैयर्थ्यादत एव पराक्रमहीनत्वाञ्च व्यर्थदोषः । माघे [शिशुपालवधे १.३] चयस्त्विषामिति [ ॥ ५३ ॥ ] । अत्र पूर्वात् पूर्वात् पराहतसम्बन्धाद् व्यर्थदोषः ॥ ६ १३.) रीतिभ्रष्टं यथा
समासा चासमासा च गौडी वैदर्भिका क्रमात् । एकपद्ये द्वयं यत्र रीतिभ्रष्टं बुधा विदुः ॥ ५४ ॥ प्रतापराजद्वसुधाधिनाथकिरीटसंघृष्टपदारविन्दः ।
शशास रामो वसुधां समग्रां चिरन्तनो दाशरथिः प्रतापात् ॥५५॥ अन्यञ्च, कुमारसम्भवे [ ६.४६]
सन्तानकतरुच्छायासुप्तविद्याधराध्वगम् ।
यस्य चोपवनं बाह्यं गन्धवद्गन्धमादनम् ॥ ५६ ॥ रघुवंशे [ १०.६० ]
गुप्तं ददृशुरात्मानं सर्वाः स्वमेषु वामनैः।
जलजासिगदाशार्ङ्गचक्रलाञ्छितमूर्तिभिः ॥ ५७ ॥ तथा च [ रघुवंशे ४.७७ ] -
तत्र जन्यं रघोर पार्वतीयैर्गणैरभूत् ।
नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलम् ॥ ५८॥ अत्र पूर्वार्धे पदैकत्वादुत्तरार्धे भिन्नपदत्वात् , कचित्पूर्वार्धे भिन्नपदत्वादुत्तरार्धे पदैकत्वाच्च गौडीवैदर्भाव्यभिचारेण रीतिपरिभ्रष्टदोषः । ६१४.) अवस्थाविरोधि यथा
वर्ष्यावस्थाविहीनं यत्तदवस्थाविरोधि च ।
कलमा नर्मदातोये क्रीडन्ति मददर्पिताः ॥ ५९॥ अन्यञ्च, रघुवंशे [ २.१०]
मरुत्प्रयुक्ताश्च मरुत्सखाभं तमयमारादभिवर्तमानम् ।
अवाकिरन् बाललताः प्रसूनैराचारलाजैरिव पौरकन्याः ॥६॥ अत्रै बाललताः प्रसूनैस्तमवाकिरन्नित्यत्र बाल्यावस्थायां कुसुमाभावादवस्थाविरुद्धदोषः।
१ समासा समासा च. २ तरु छाया. ३ पार्वतियैर्गणैः. ४ The sentence अन्न बाललता:... दोषः is misplaced in the Ms. It is found written after मुग्धास्वहेतोरवस्थाविरोभिदोषः । below.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54