Book Title: Kavi Kaustubh
Author(s): Rajasthan Puratan Granthmala
Publisher: Rajasthan Puratan Granthmala
View full book text
________________
[४६-५२]
वाक्यदोषाः। ६११.) एकार्थ यथा
पठनं पठितानां च शब्दार्थानां पुनः पुनः। अविशेषेण भणनं तदेकार्थ मतं यथा ॥ ४६॥ मेघा वर्षासु गर्जन्ति गर्जन्ति जलदास्तथा ।
गर्जन्ति वारिवाहास्ते गर्जन्ति च बलाहकाः ॥४७॥ अन्यच्च, रघुवंशे [ २.१२]
स कीचकैर्मारुतपूर्णरन्धैः कूजद्भिरापादितवंशकृत्यम् ।
शुश्राव कुजेषु यशः स्वमुच्चैरुद्गीयमानं वनदेवताभिः ॥ ४८ ॥ अत्र वनदेवताभिः कीचकैरुद्गीयमानं यशः शुश्रावेत्यन्वये, वेणवः कीचकास्ते स्युर्ये खनन्त्यनिलोद्धता इति [अमरकोषे २. १. १६२ ] कीचकपदेनैव वाक्ये* चरितार्थे सति मारुतपूर्णरन्ब्रैस्तथा च कूजद्भिरिति पुनः पुनरविशेषेण विशेषणद्वयोपादानत्वादेकार्थदोषः। तथा च [ रघुवंशे ३.१७]
निवातपस्तिमितेन चक्षुषा
नृपस्य कान्तं पिबतः सुताननम् । महोदधेः पूर इवेन्दुदर्शना
गुरुः प्रहर्षः प्रबभूव चात्मनि ॥ ४९ ॥ अत्रात्मनि गुरुः प्रहर्षः प्रबभूवेति व्याहृते सति हर्षः प्रबभूवेति वाक्यार्थपरिपूर्ती पुनः पुनरविशेषेण गुरूपसर्गविशेषणद्वयोपादानहेतोरेकार्थदोषः । ६१२.) व्यथं यथा
एकवाक्ये प्रबन्धे वा पूर्वात् पूर्वात् पराहतम् । विरुद्धार्थतया व्यर्थ वाक्यं वाक्यविदो यथा ॥५०॥ निर्जिता रिपवो येन जितं येन महीतलम् ।
को दधेत् समरे खड़ को वीरो रणमिच्छति ॥५१॥ अन्यच्च, मयूरकवेः काव्यमण्डने -
सर्पिः शत्रुयशो हवी रिपुगणास्तीक्ष्णोः शरा बर्हिषः __ खड्गाश्चारुस्रुचः प्रतापदहनः प्रत्यर्थिमुख्यः पशुः। सेनेशाः कुशलर्विजः क्षितिपते श्रीवीरसेन प्रभो
होतृत्वं परिकल्प्य सङ्गरमखे देवास्त्वया तर्पिताः ॥५२॥
१ वाक्यचरितार्थे. २ प्रबभुव. ३ °मिछति. ४ तीक्ष्णः. ५ सूचः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54