Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 8
________________ (४) करणकुतूहलम् । शिरोमणी-"स्पष्टोऽधिमासः पतितोप्यलब्धो यदा यदा वाऽ पतितोऽपि लब्धः ॥ सैकैर्निरकैःक्रमशोऽधिमासैस्तदा दिनौषः सुधिया विधेयः॥” तैरेवाधिमासैरुपरिस्थितोऽको युक् युतः कार्यश्चान्द्रमासो जातोऽसौ खरामैत्रिंशद्भि३०-र्गुणितः सन् शुक्लपक्षमादीकत्य मासस्य गतदिनैर्युतश्चान्द्रोऽहर्गणो भवति स द्विःस्थाप्यस्ततनिधि ३ युतःस्वकीयेन रामानशैलांशेन शुत्तरसप्तशतांशेन-७०३ युतस्तस्मायुगाङ्गैश्चतुःषष्टिभि६४ राप्ताऽवमानिअवमेऽप्यधिमासवत्सैकता निरेकता वा कार्या । उक्तञ्च-"अभीष्टवारार्थमहर्गणश्चेत्सैको निरेकस्तिथयोऽपि तद्वत्" इति तैरवमैरुपरिस्थितश्चान्द्रोऽहर्गणो हीनः कार्यःस च गुरुवारादिकोऽहर्गणो भवति ग्रन्थारम्भादारश्यैते भूदिना अर्कसावना इति एतावन्तःसूर्योदया जाताः । उक्तञ्च"इनोदयद्वयान्तरं तदेव सावनं दिनम् । तदेव मेदिनीदिनं भवासरस्तु अचम" इत्यहर्गणसिद्धिः अथोदाहरणम। संवत् १६७६ चैत्रादिवर्षे शाके १५४१चन्द्रे ज्येष्ठकृष्ण १४ रखौ घट्यादिः ५४ । २० अश्विनीनक्षत्रं घटयादिः २७ । २६ सौभाग्यो योगो घट्यादिः ४४।१२ अत्र दिने गतघटी १० समये ग्रहाणां साधनं तत्र प्रथमाहर्गणार्थ यथा शकः १५४१पञ्चदिक्चन्द्र ११०५ नः गताब्दपिण्डेऽ ४३६ यमकै १२ गुणितः५२३२ चैत्रतो गतचान्द्रमासेन १ युतो ५२३३ धो ५२३३ऽस्माद्विगुणितात् १०४६६ रसाङ्गान्वितात् १० ५३२स्वशब्देनाधः स्थिता १०५३२दनखा. ९०० तो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 160