Book Title: Karan Kutuhalam Author(s): Bhaskaracharya Publisher: Kshemraj Krishnadas View full book textPage 7
________________ गणककुमुदकौमुदीटीकासमेतम् । (३) अथ वर्तमानशकादारभ्याहर्गणादिसाधनमाह। शकः पञ्चदिक्चन्द्रहीनोऽर्कनिघ्नो मधोर्यातमासान्वितोऽधो दिनिघ्नात् ॥ रसाङ्गान्वितात्स्वाभ्रखाकांशहीनाच्छराङ्गैरवाप्ताधिमासैर्युगूलः ॥ २॥ खरामाहतो याततिथ्यन्वितोऽधस्त्रियुक्तात्खरामाभ्रशैलांशयुक्तात् । युगाङ्केरवाप्तावमोनस्तदूर्बो भवेज्जीववारादिकोऽहर्गणोऽयम् ॥३॥ यस्मिन्नभीष्टाब्दमासदिने ग्रहाणा मध्यमाद्यं साधयितुमिष्यते तत्तत्समयकःशकः । शकनृपगताब्दपिण्डःपञ्चदिक्चन्द्रःपञ्चोत्तरैरेकादशशतै ११०५ हीनःकार्यःयच्छेषं ते पन्थारम्भस्य गताब्दाः सौरा भवन्ति स गताब्दगणोऽकादशशिर्निनो गणितःसौरमासगणो जातः स मधोश्चैत्रादिगतमासैर्युक्तःसएवाधो द्वितीयस्थाने धार्यस्ततोऽधःस्थितो द्वाभ्यांगुणितो रसाङ्गान्वितःषट्षष्टिभि६६र्युतःस्वकीयेनानखांकांशेन नवशतांशेन ९०० हीनः कार्यस्तस्माच्छरांकैः पश्चषष्टिभि ६५ र्भागेऽपहृते यदाप्तं तेऽधिमासाःअनेन प्रकारेण कदाचित्पतितोऽधिमासो न लायते कदाचिदपतितोऽपि लभ्यते तत्र स्पष्टो धिमासोऽधिमासःस्फुटः स्यादित्यनेन तन्निश्चयं कृत्वा तथा गताधिमासेषु सैकता निरेकता वा कार्या ! उक्तञ्च सिद्धान्त Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 160