Book Title: Karan Kutuhalam Author(s): Bhaskaracharya Publisher: Kshemraj Krishnadas View full book textPage 5
________________ भूमिका | श्री भास्कराचार्यः । सह्यकुलाद्रेरासने भूभागे विज्जडविडसंज्ञके नगरे गणककुलावतंसान्महेश्वराचार्यास गुणपूर्णमहीममिते शालिवाहनशकेऽसौ जन्म लेभे । अनेन षटूत्रिंशद्वर्षात्मके वयसि पाटीबीजगणितगोलसंज्ञकैश्चतुर्भिरध्यायैर्विभक्तः "सिद्धान्तशिरोमणिनामा' ब्रह्मसिद्धान्तरहस्यभूतः सिद्धान्तो विरचितः । सर्वत्र भारते वर्षे सिद्ध:न्ततत्त्वं जिज्ञासुभिर्लोकैः प्रथममयमेव पठ्यते एतद्गन्थोपरि नानाविधाष्ठीकाष्टिव्यण्यः प्राचीना अर्वाचीनाश्च वर्तन्ते । अथानेमाचार्येणैकोनसप्तत्यात्मके वयसि लोकोपकारार्थं ब्रह्मसिद्धान्ततुल्य फलं "करणकुतूहलनामकं" करणं निर्मितम् | अत्र ज्याचापकर्म विनैव छायासाधनं कृतम् । तथा चोक्तम् " इति कृतं लघुकार्मुकशिञ्जिनी ग्रहणकर्म विना सुतिसाधनम् " । समस्याभूतया प्रोक्तदिशैव गणेशदैवज्ञेन सकलं स्वकरणं ज्याचापकर्मरहितं विहितम् । यद्यपि तत्र कुत्रचिज्जयाचापकर्मपरित्यागेन गौरवं स्थौल्यं चापतितं तथापि ग्रन्थान्तं यावत्स्वप्रतिज्ञानिर्वाहार्थमेव यतितम् । अत एव ग्रन्थान्ते “पूर्वे प्रौढतराः कचित्किमपि यच्चक्रुर्द्धनुज्र्ज्ये विना ते तेनैव महातिगर्वकुभृङ्गेऽधिरोहन्ति च । सिद्धान्तोक्तमिहाखिलं लघुकृतं हित्वा धनुज्र्ज्ये मया, तद्भव मयि मास्तु किन्न यदहं तच्छास्त्रतो वृद्धधीः " ॥ इत्याद्यात्मनः प्रशंसा कृता । एतत्करणानुसारं साम्प्रतमपि जोधपुरादिमान्ते तिथिपत्राणि निर्णीयन्ते । परं तानि चण्डबीजदानेन सम्पति मूलग्रन्थाद्भिद्यन्ते । अस्योपर्युदाहरणद्वयं वर्तते । तत्रैकं सुप्रसिद्धविश्वनाथगणककृतम् । द्वितीयं सुमतिहर्षगणिनिर्मितम् । एतदेव विरलप्रचारत्वात्प्राञ्जलत्वाच्चास्माभिर्मूलेन सह योजितम् । अनेन पश्चसप्तत्युत्तर षोडशशततमे विक्रमवत्सरे टीका कृता । अयमेव काळष्टीका कर्तुः । विशेषष्टीकाद्यन्तश्लोकेभ्योऽवधार्यः । ग्रन्थोऽयं सटीको यथामति संशोध्य “भारतवर्षालङ्कारेभ्यः " श्रेष्ठिवंशावतंसेभ्यः श्री कृष्णदासतनय श्रीस्खेमराज महाशयेभ्यः समर्पितो लोकोपकारी भवत्विति परमे श्वरं प्रार्थयते । पुरोहितोपाख्य- माधवशास्त्री । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 160