Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 3
________________ श्रीगणेशाय नमः । श्रीमद्भास्कराचार्यप्रणीतं करणकुतूहलम् सटीकं प्रारभ्यते. च्योतच्छैलशिलोच्छलज्जलकणैरा कामबाणाम्बुधौ मनस्तन्मुखपङ्कजं कमलवद्रेजे सरोजश्रिया ॥ तत्राप्यद्भुतधैर्ययुक्सुरवरैर्यः स्तूयते कोटिशो मित्रामित्रसमस्वभावविभवः श्रीपार्श्वराट्र सश्रिया ॥ अथारब्धग्रन्थनिर्विघ्नपरिसमाप्तयेऽभीष्टदेवतानमस्का ररूपं मंगलाचरणमभिधेयं चाह गणेशं गिरं पद्मजन्माच्युतेशान्ग्रहान्भास्करो भास्करादींश्च नत्वा । लघुप्रक्रियं प्रस्फुटं खेटकर्म प्रवक्ष्याम्यहं ब्रह्मसिद्धान्ततुल्यम् ॥ १ ॥ इतः षट् भुजङ्गप्रयाताः । अथ सिद्धान्तपाटीबीजगणितकरणानन्तरम्, उक्तं च " रसगुणपूर्णमहीसम (१०३६ ) शकनृपसमयेऽभवन्ममोत्पत्तिः । रसगुणवर्षेण मया सिद्धान्तशिरोमणी रचितः " ॥ भास्करनामाहं ग्रन्थकारो गणपतिं सरस्वत ब्रह्मविष्णुशिवान् सूर्यादीन् ग्रहांश्व प्रणम्य खेटानां ग्रहाणां कर्म मध्यादिविधानं कथयिष्यामीति सटंकघटना | अप्रामाण्यशंकानिरासाय विशेषणं ब्रह्मसिद्धान्ततुल्यम् । ब्रह्मसिद्धान्तेनावगतार्थत्वमाशंक्याह । लघ्वी प्रक्रिया कर्त Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 160