________________
श्रीगणेशाय नमः ।
श्रीमद्भास्कराचार्यप्रणीतं
करणकुतूहलम् सटीकं प्रारभ्यते.
च्योतच्छैलशिलोच्छलज्जलकणैरा कामबाणाम्बुधौ मनस्तन्मुखपङ्कजं कमलवद्रेजे सरोजश्रिया ॥ तत्राप्यद्भुतधैर्ययुक्सुरवरैर्यः स्तूयते कोटिशो मित्रामित्रसमस्वभावविभवः श्रीपार्श्वराट्र सश्रिया ॥
अथारब्धग्रन्थनिर्विघ्नपरिसमाप्तयेऽभीष्टदेवतानमस्का ररूपं मंगलाचरणमभिधेयं चाह
गणेशं गिरं पद्मजन्माच्युतेशान्ग्रहान्भास्करो भास्करादींश्च नत्वा । लघुप्रक्रियं प्रस्फुटं खेटकर्म प्रवक्ष्याम्यहं ब्रह्मसिद्धान्ततुल्यम् ॥ १ ॥
इतः षट् भुजङ्गप्रयाताः । अथ सिद्धान्तपाटीबीजगणितकरणानन्तरम्, उक्तं च " रसगुणपूर्णमहीसम (१०३६ ) शकनृपसमयेऽभवन्ममोत्पत्तिः । रसगुणवर्षेण मया सिद्धान्तशिरोमणी रचितः " ॥ भास्करनामाहं ग्रन्थकारो गणपतिं सरस्वत ब्रह्मविष्णुशिवान् सूर्यादीन् ग्रहांश्व प्रणम्य खेटानां ग्रहाणां कर्म मध्यादिविधानं कथयिष्यामीति सटंकघटना | अप्रामाण्यशंकानिरासाय विशेषणं ब्रह्मसिद्धान्ततुल्यम् । ब्रह्मसिद्धान्तेनावगतार्थत्वमाशंक्याह । लघ्वी प्रक्रिया कर्त
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com