Book Title: Kalpsutram
Author(s): Danvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 375
________________ निघाणमाइएसु अ देवकज्जेसु अ देवसमुदइएस अ देवसमितीसु अ देवसमवासु अ देवपओअणेसु अ एगयओसहिआ समुवागया समाणा पमुइअपकीलिआ अट्ठाहियारुवाओ महामहिमाओ करेमाणा पालेमाणा विहरिंति"त्ति श्रीजीवाभिगमोक्तामष्टाहिकां देवादयः कं कुर्युः १ ततो भाद्रसितपञ्चम्या अर्वा‍ आषाढपूर्णिमाया आरभ्य ये ये पर्युषणाप्रकारास्ते सर्वेऽपि श्रीपर्युषणाकल्पकर्षणपूर्वकवर्षासामाचारीस्थापनरूपा एव न पुनः सांवत्सरिकप्रतिक्रमणादिविशिष्टाः । नन्वेते पर्युषणाप्रकाराः सम्प्रति कथं न क्रियन्ते ? उच्यतेव्यवच्छिन्नत्वात् । तथाऽभिवर्द्धितवर्षे विंशत्यादिदिनैः क्रियमाणगृहिज्ञातावस्थानरूपपर्युषणाप्रकारस्यापि व्यवच्छिन्नत्वात् सम्प्रति तदपि कर्त्तुमनुचितं, प्रतिक्रमणादिकृत्यानि तु दूरापास्तानीत्यत्र बहु वक्तव्यं ग्रन्थगौरवभयान्नेह प्रतन्यते, अत एव कालावग्रहो जघन्यतोऽपि भाद्रपदसितपञ्चम्याश्चतुर्थ्या वारभ्य कार्तिकचतुर्मासिकान्तः सप्ततिदिनमान एवोक्तो न पुनः शतदिनमानः । कश्चित्तु 'चाउम्मासुकोर्स सत्तरिराइंदिया जहन्त्रेणं'ति वचनादेकसप्ततिदिनादारभ्यैकदिनोनचातुर्मासिकं यावन्मध्यममवग्रहं स्वीकृत्य पर्युषणानन्तरं मासवृद्धौ दिनानां शतमपि न दोषायेति धार्श्वमवलम्बते, तदयुक्तम्, मध्यमत्वमपि पञ्चाशद्दिनलक्षणानियतावग्रहमध्यात् पञ्चपञ्चदिनवृद्ध्या हान्या वा स्यान्न पुनः पर्युषणानन्तरमपि दिनवृज्या अन्यथा कार्तिकचतुर्मास कानैयत्यं स्यादित्यलं प्रपञ्चेनेति । उत्कर्षतो वर्षायोग्यक्षेत्रान्तराभावे आषाढमासकल्पेन सह पाश्चात्यवृष्टिसद्भावान्मार्गशीर्षेणापि सह पाण्मासिक इति । तत्र द्रव्य १ क्षेत्र २ काल ३ भाव ४ स्थापना चैवं द्रव्यस्थापना- तृणडगलः

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426