Book Title: Kalpsutram
Author(s): Danvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
रेंति, अत्थेगइया दुच्चेणं भवग्गहणेणं सिझंति जाव अंतं करेंति, अत्थेगइया तच्चेणं जाव | अंतं करेंति, सत्तभवग्गहणाई पुण नाइक्कमंति ॥ ६३ ॥
व्याख्या-इच्चेइअमित्यादितः पुण नाइकमंति त्ति यावत् , तत्र इतिः-उपदर्शने एनं-पूर्वोक्तं सांवत्सरिक-वर्षारात्रिकं स्थविरकल्प-यद्यपि किञ्चिजिनकल्पिकानामपि सामान्यं तथापि भूना स्थविराणामेवात्र सामाचारीति-स्थविरकल्पमर्यादा यथासूत्र-यथा सूत्रेण भणितं न सूत्रव्यपेतं, तथा कुर्वतः कल्पो भवति अन्यथा त्वकल्प इति यथाकल्पं, एवं कुर्वतश्च ज्ञानादित्रयलक्षणो मार्ग इति यथामार्ग, यत एव यथामार्गमत एव यथातथ्यं यथैव सत्यमुपदिष्टं भगवद्भिस्तथैव, तं च सम्यक्-यथावस्थितं काएण त्ति उपलक्षणत्वात्कायवाङ्मनोभिः अथवा कायशब्देनैव योगत्रयं व्याख्यायते तथाहि-कायेन-शरीरेण 'के गैं रै शब्दे' इति धातोः कायते उच्चार्यते इति कायो-वचनं तेन, कं-ज्ञानं तदेवात्मा-खरूपं यस्य तत्कात्म मनो बुद्ध्यात्मकत्वान्मनसः तेन ततश्च कायवाड्मनोभिरित्यर्थः, स्पृष्ट्वाआसेव्य, पालयित्वा-अतिचारेभ्यो रक्षयित्वा, शोधयित्वा शोभयित्वा वा विधिवत्करणेन, तीरयित्वा-यावजीवमा-16 राध्य यावज्जीवमाराधनेनान्तं नीत्वा, कीर्तयित्वाऽन्येभ्य उपदिश्य, आराध्य-न विराध्य यथावत्करणात्, आजयाभगवदुपदेशेन अनुपाल्य-अन्यैः पूर्व पालितस्य पश्चात्पालनेन, तस्यैवं पालितस्य फलमाह-अत्थेगइअ त्ति सन्त्येकेऽत्युत्तमया तदनुपालनया तस्मिन्नेव भवग्रहणे-भवे सिध्यन्ति-निष्ठितार्था भवन्ति, बुध्यन्ते-केवलज्ञानेन, मुच्यन्तेभवोपग्राहि कर्मीशेभ्यः परिनिर्वान्ति-कर्मकृतसकलसन्तापपरिहाराच्छीतीभवन्ति, किमुक्तं भवति सर्वदुःखाना
ॐॐॐॐॐॐॐrk

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426