Book Title: Kalpsutram
Author(s): Danvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 423
________________ 18 | सागराह्ना, निखिलागमकनककषपट्टाः ॥ ११ ॥ कुमतिमतङ्गजकुम्भ - स्थलपाटनपाटवेन सिंहसमाः । दुर्दमवादिविवादा-दपि सततं लब्धजयवादाः ॥ १२ ॥ श्रीकल्पसूत्रगत संशयतामसाली-नाशे नवीनतरणेः किरणालिकल्पा । एषा विशेषरचना रुचिरा वितेने, तैरत्र कल्पकिरणावलिनामवृत्तिः ॥ १३ ॥ यावत्तिष्ठति मेरु-र्यावजिनशासनं जगन्मध्ये । तावत्तिष्ठतु शिष्टै - निरन्तरं वाच्यमानाऽसौ ॥ १४ ॥ श्रीमदहम्मदाबाद - वास्तव्यः सङ्घनायकः । सहज| पालनामाऽऽसीत्, पुण्यप्राग्भारभासुरः ॥ १५ ॥ सतीजन शिरोरल - मंगा इति तदङ्गना । कुंअरजीति सन्नामा, तयोः पुत्रोऽभवत् पुनः ॥ १६ ॥ आबाल्यादपि पुण्यात्मा, धर्मकर्मपरायणः । सप्तक्षेत्र्यां वपन् वित्तं स चक्रे सफलं जनुः ॥ १७॥ तथाहि — श्रीविजयदानसूरीणां समीपे समहोत्सवम् । प्रतिष्ठां कारयित्वासौ प्रतिष्ठां प्राप भूयसीम् ॥ १८ ॥ विमानप्रतिमानं स, प्रतिश्रयमचीकरत् । स्थितये धर्मराजस्य, राजधानीमिवोत्तमाम् ॥ १९ ॥ स च सङ्घपतीभूय, यात्रां सिद्धगिरेर्व्यधात् । ततः सङ्घपतिख्यातिं, विशेषाल्लब्धवान् भुवि ॥ २० ॥ शत्रुञ्जयमहातीर्थे, पद्याबन्धपुरस्सरम् । स चैत्यं कारयामास, यशःपुञ्जमिवात्मनः ॥ २१ ॥ तालध्वजोजयन्ताद्रि-नाम्नोः प्रथिततीर्थयोः । जीर्णोद्धारं स चक्रेऽष्टा- पदे भरतभूपवत् ॥ २२ ॥ ज्ञानावरणकम्र्मोत्थ-ध्वान्तध्वंस विधित्सया । गुरूणामुपदेशेन स सङ्घपतिरादरात् ॥ २३ ॥ पदमाईप्रियापुत्र - विमलदाससंयुतः । अलेखयत् खयं वृत्ते-रमुष्याः शतशः प्रतीः ॥ २४ ॥ ॥ इति प्रशस्तिः ॥ ******

Loading...

Page Navigation
1 ... 421 422 423 424 425 426