________________
सित्थे नो चेवणं ससित्थे, से वि य णं परिपूए नो चेवणं अपरिपूए, से वि य णं परिमिए नो चेवणं अपरिमिए, से वि य णं बहुसंपुन्ने नो चेव णं अबहुपुन्ने ॥ २५ ॥
व्याख्या – वासावासमित्यादितो नो चेव णं अबहुपुन्ने ति यावत्, तत्र सव्वाई पाणगाई ति पानैषणोक्तानि वक्ष्यमाणानि वोत्खेदिमादीनि अन्यत्रोक्तानि त्वेवं-" उस्सेइम १ संसेइम २ तंदुल ३ तिल ४ तुस ५ जबोदगा ६ यामं ७। सोवीर ८ सुद्धविअडं ९, अंबय १० अंबाडम ११ कविद्धं १२ ॥ १ ॥ मउलिंग १३ दक्ख १४ दाडिम १५-खजूर १६ नालिअर १७ कदर १८ बोर १९ जलं । आमलगं २० चिंचापाणगाइ २१, पढमंगभणिआई ॥ २ ॥” तथा - "आयामगं चेव जयोदणं च, सीअं सोवीरं च जबोदगं च । नो हीलए पिंडं नीरसं तु, पंतकुलाई परिव्यए जे स भिक्खु ॥ १ ॥ त्ति श्रीउत्तराध्ययने इत्यादि, अत्र च ग्रन्थे “उस्सेइम १ संसेइम २ - चाउल ३ तिल ४ तुस ५ जवाण ६ तह उदयं । आयामं ७ सोवीरं ८ च सुद्धविअर्ड ९ जलं नवहा ॥ १ ॥" सि तत्र उत्खेदिमं - पिष्टजलं पिष्टभृतहस्तादिक्षालनजलं वा १, संखेदिमं संसेकिमं वा यत् पर्णाद्युत्काल्य शीतोदकेन सिच्यते २, चाउलोदगं - तंदुलघावनं ३, तिलोदकं - महाराष्ट्रादिषु निस्त्वचिततिलधावनजलं ४, तुषोदकं - त्रीह्यादिधावनं ५, यवोदकं यवधावनं ६, आयामको - ऽवश्रावणं ७, सोवीरं काअिकं ८ शुद्धविकटं- उष्णोदकं, केचित् तु शुद्धविकटशब्देन उष्णोदकं वर्णान्तरादिप्राप्तं शुद्धजलं वेति विकल्प्य व्याख्यानयन्ति तत्तु षट्कल्याणकव्याख्यानव| त्सन्देहविषौषधीगतमेव व्याख्यानं न पुनरागमिकम्, यतः पर्युषणाकल्पचूर्ण्यादिषु स्थानाङ्गवृत्त्यादिषु च यत्र