Book Title: Kalpsutram
Author(s): Danvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 405
________________ A + + + व्याख्या-वासावासमित्यादितस्तं चेव ति यावत् सूत्रत्रयी, तत्र तेगिञ्छि ति वातिक १ पैत्तिक ३ श्लैष्मिक ३ सानिपातिक ४ रोगाणां आतुर १ वैद्य २ प्रतिचारक ३ भैषज्य ४ रूपां चतुष्पदा चिकित्सां तथा चोक्तम्-"मिषक् १ द्रव्या २ण्युपस्थाता ३, रोगी ४ पादचतुष्टयं । चिकित्सितस्य निर्दिष्टं, प्रत्येकं तचतुर्गुणम् ॥१॥ दक्षो १ विज्ञातशास्त्रार्थो २, दृष्टकर्मा ३ शुचि ४ भिषक् । बहुकल्यं १ बहुगुणं २, सम्पन्नं ३ योग्य४ मौषधम् ॥२॥ अनुरक्तः १ शुचि २ दक्षो, ३ बुद्धिमान् ४ प्रतिचारकः । आत्यो रोगी १ भिषवश्यो २,13 ज्ञापकः ३ सत्त्ववान ४ पि ॥३॥" आउट्टित्तए त्ति कारयितुं आउद्विधातुरागमिकः करणार्थे ॥४९॥ तवोकम्मं ति अर्द्धमासिकादितपः अत्र प्रत्यपायान-समर्थो वाऽसमर्थो वाऽयं वैयावृत्यकरो वाऽन्यो वा वैयावृत्त्यफरोऽस्ति नास्ति वा पारणकादियोग्य क्षेत्रमस्ति नास्ति वेत्यादिकान् आचार्या एवं विदन्ति ॥५०॥ अपश्चिम-चरमं मरणमपश्चिममरणं न पुनर्यत्प्रतिक्षणमायुर्दलिकानुभवलक्षणमावीचिकमरणं तदेवान्तोऽपश्चिममरणान्तस्तत्रभवा आपत्वादुत्तरपदवृद्धावपश्चिममारणान्तिका सा चासौ संलेखना च संलिख्यते-कृशीक्रियते | शरीरकषायाधनयेति सा च द्रव्यभावभेदभिन्ना 'चत्तारि विचित्ताई' इत्यादिकाऽपश्चिममारणान्तिकसंलेखना तस्या जूसण त्ति जोषणं-सेवा तया सिए ति क्षपितशरीरः अत एव प्रत्याख्यातभक्तपानः पादपोपगतः कृतपादपोपगमनः अत एव कालं जीवितकालं मरणकालं वाऽनवकाङ्क्षन्-अनभिलषन् विहर्तुमिच्छेत् , अत्र प्रत्यपायाअयं निस्तारको न वा समाधिपानक निर्यामका वा सन्ति न बेत्यादयः, क्षपकस्य बुदरमलशोधनार्थे त्वगेलानाग ॐॐॐॐॐॐॐ S

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426