Book Title: Jinduttasuri Charitram Uttararddha
Author(s): Jinduttsuri Gyanbhandar
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 210
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ अथ मंगलाष्टकं लिख्यते ॥ श्रीमन्नम्रसुरासुरेन्द्र मुकुटप्रद्योतिरत्नप्रभा, भास्वत्पादनखेन्दवः प्रवचनांमधी व्यवस्थायिनः । ये सर्वे जिनसिद्धसूरिगतास्ते पाठकाः साधवः स्तुत्या योगिजनैश्च पंचगुरवः कुर्वन्तु मे मंगलम् ॥ १ ॥ सम्यग्दर्शनबोधवृत्तममलं रत्नत्रयं पावनं मुक्तिश्रीनगरायनं जिनपतेः खर्गापवर्गप्रदः । धर्मः सूक्तिसुधाश्च चैत्यमखिलं जैनालयं श्यालयं प्रोक्तं तत्रिविधं चतुर्विधममी कुर्वन्तु मे मंगलं ॥ २ ॥ नाभेयादिजिनाधिपास्त्रिभुवने ख्याताश्चतुर्विंशतिः श्रीमंतो भरतेश्वरप्रभृतयो ये चक्रिणो द्वादश, ये विष्णुप्रति विष्णुलांगलधराः सप्ताधिका विंशतिः । त्रैलोक्येऽभयदा त्रिषष्टिपुरुषाः कुर्वन्तु मे मंगलं ||३ || कैलासे वृषभस्य निर्वृतिमहावीरस्य पावापुरी, चंपायां वसुपूज्यसञ्जिनपतेः सम्मेवशैलेऽर्हतां, शेषाणामपि चोज्जयंतशिखरे नेमीश्वरस्यार्हतो, निर्वाणा विनयः प्रसिद्ध विभवाः कुर्वन्तु मे मंगलं ||४|| ज्योतिर्व्यन्तरभुवनामरगृहे मेरौ कुलाद्रौ स्थिता, जंबूशाल्मलिचैत्यशाखिषु तथा वक्षाररूप्यादिषु, इक्ष्वाकारगिरौ च कुंडलनगे द्वीपे च नंदीश्वरे, शैलेये मनुजोत्तरे जिनगृहाः कुर्वन्तु मे मगलं ॥ ५ ॥ यो गर्भावतरोपि जयत्य जन्माभिषेकोत्सवे, यो जातः परिनिष्क्रमेवच भवो यः केवलज्ञानभाक्, यः कैवल्यपुरप्रवेशमहिमा संभावितः स्वर्गिभिः, कल्याणानि च तानि षट्पंच सततं कुर्वन्तु मे मंगलं ॥ ६ ॥ ये पंचोषधिद्धयः श्रुततपोॠद्धिं गताः पंच ये ये चाष्टांगमहानिमित्त कुशला येऽष्टौ विधा वारणाः । पंचज्ञानघराथ येऽपि वलिनो ये बुद्धिऋद्धीश्वराः सप्तैते सक For Private And Personal Use Only

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240