Book Title: Jambuswami Charitam
Author(s): Ratnaprabhsuri, Hemsagarsuri
Publisher: Dhanjibhai D Zaveri

View full book text
Previous | Next

Page 41
________________ Shri Mahavir Jain Aradhana Kendra जम्बूचरित्रे ॥ ४० ॥ DeDe www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मार्गति । पारिप्रहिकादयोऽपि यथारुचितं याचन्ते । तुरङ्गस्तु मे पञ्चाशतमेव लभते, प्रहारपार्श्वादवलम्ब को भारिकः । ततो यदि जीवन्नितो निःसरामि तदा लब्धमेव मया सर्वमिति । " काले कलौ राजनि चार्थलुब्धे, धनानि किं रक्षत जिवितानि । स एव लाभो ननु शौनिकेन, मुच्येत मेषो गतकर्णको यत् ॥ ४७० ||" इति निराशीभूय निर्गतोऽसौ कृताऽन्यतो मुखद्वारां शावगिलिगुरोर्मठिकां गवेषयमाणोऽपि यावन्न प्राप्नोति तावनिराशोऽध्यासीत् । सोऽयं क्षते क्षारावसेकः । मन्ये दीनारसहस्त्रस्याप्यश्वगतिरेवाभूत् । कदाचिद्विचरता चतुरेणोपलक्षितो भिक्षुवेषेण क्षुल्लकः सः । तत्पृष्ठलग्नो जगाम सावगिलिगुरुमठिकाम् । प्रणम्योपविष्टस्तत्पुरस्तात्प्रोवाच भगवन्नर्व्यतां तद्दीनारसहस्रं न्यासीकृतम् । सावगिलि – कस्त्वम् ? क्व कदा दीनारसहस्त्रमाप्पतं, धूर्त्तः कश्चिदस्मद्वधंसनाय प्राप्नोति । योग० – स्वामिन् ? किमेवमुच्यते । तदा त्वद्वचनान्मठिकान्तर्मुक्तं मया तत् । साव० - तत्किं परस्वमङ्गुल्यप्रमात्रेणाप्यस्पृशन्तो वयं लुण्टाकाः कल्पितास्त्वया पर्याप्तं त्वदुपास्त्या । याहि यथागतमित्युत्थाय चिन्ताचक्रचटितो भ्रमन् गृहीतपुष्पचतुस्सरः प्राप्तो मकरदंष्ट्रायाः पार्श्वे, पृष्टस्तया प्रयोजनमवोचत् । तयापि जल्पितम् अहं ते पओयणं पसाहेमि जइ लद्धस्स अद्धं देसि । योग० –— सर्वनाशे समुत्पन्ने, अर्द्ध त्यजति पण्डितः ' इति मनस्याधाय प्रतिपन्नवानेतत् कथितं च तस्य तया । मइ तत्थ गया तए एवमेवं च कायव्वंति । तओ पत्थरभरियपेडाभारियमत्थयाहिं दसहिं दासीहिं अवरेण वि पउरेण पाइकचकाइ परिवारेण सद्धिं सुहासणासीणा धारिज्जमाणमाऊरायवत्ता पत्ता सा सावगिलिगुरुसमीवे पणमिऊण भणिउमादत्ता कलिराज्यकथा-मह धूयाए बहुमायाए चंपाए गयाए बहूणि दिणाणि जायाणि, ता मए तदाणयणाय तत्थ गंतव्वं । तओ For Private And Personal Use Only योगराजेन विसंवादि राज्यस्थिति प्रेक्षणम् । ॥ ४० ॥

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64