Book Title: Ishtopadesha
Author(s): Devnandi Maharaj, Shitalprasad, Champat Rai Jain
Publisher: Paramshrut Prabhavak Mandal

View full book text
Previous | Next

Page 23
________________ श्रीदेवनन्दि-पूज्यपादःस्मरणम् । १. कवीनां तीर्थकृहेवः किं तरां तत्र वर्ण्यते । विदुषां वाङ्मलध्वंसि तीथं यस्य वचोमयम् ।। -आदिपुराणे-श्रीजिनसेनाचार्यः । २. इन्द्रचन्द्रार्कजैनेन्द्रव्यापिव्याकरणक्षणः । देवस्य देवसंघस्य न वन्द्यते गिरः कथम् । - हरिवंशपुराणे-पुन्नाटसंघीय श्रीजिनसेनसूरिः। ३. अचिन्त्य-महिमा देवः मोऽभिवन्द्यो हितैषिणा। शब्दाश्च येन सिद्धयन्ति साधत्वं प्रतिलम्भिताः ।।-पार्श्वनाथचरित-श्रीवादिराजसूरिः। ४. अपाकुर्वन्ति यद्वाचः काय-वाक्-चित्तसंभवम् । __ कलङ्कमङ्गिनां सोऽयं देवनन्दो नमस्यते । -ज्ञानार्णवे-श्रीशुभचन्द्रसूरिः । ५. लक्ष्मीरात्यन्तिकी यस्य निरवद्याऽवभासते । देवनन्दितपूजेशे नमस्तस्मै स्वयंभुवे ।।-जैनेन्द्रमहावृत्तिः-श्रीअभयनन्दीः । ६. पूज्यपाद: सदा पूज्यपादः पूज्यैः पुनातु माम् । व्याकरणार्णवो येन तीर्णो विस्तीर्णसद्गुणः ।। -पाण्डवपुराणे-श्रीशुभचन्द्रभट्टारकः । ७. यो देवनन्दि-पथमाभिधानो, बुद्धया महत्या स जिनेन्द्र बुद्धिः । श्रीपूज्यपादोऽजनि देवताभिर्यतपूजितं पादयुगं यदीयम् ।। -श्रवणबेलगोल-शिलालेख नं०४०. ८. जैनेन्द्रं निजशब्दभागमतलं सर्वार्थसिद्धिः परा सिद्धान्ते निपुणत्वमुद्धकविता जैनाभिषेक: स्वकः । छन्दः सूक्ष्मधियं समाधिशतकं स्वास्थ्यं यदीय विदामाख्ययातीह स पूज्यपादमुनिपः पूज्यो मुनीनां गणैः ।। -श्रवणबेल्गोल-शिलालेख नं० ४०. ९. श्रीपूज्यपादोद्धृतधर्मराज्यस्ततः सुराधीश्वरपूज्यपादः । यदीयवैदुष्यगुणानिदानीं वदन्ति शास्त्राणि तदुद्धृतानि ॥ धृति विश्वबुद्धिरयमत्र योगिभिः कृतकृत्यभावमनुविभ्रदुच्चकैः । जिनद्वभूव यदनङ्गचापहृत्स जिनेन्द्रबुद्धिरिति साधुवर्णितः ॥ -श्रवणबेल्गोल-शिलालेख नं० १०५. १०. श्रीपूज्यपादमुनिरप्रतिमौषद्धिर्जीयाद्विदेहजिनदर्शनपूतगात्रः । यत्पादधौतजलसंस्पर्शनप्रभावात् कालायसं किल तदा कनकीचकार ।। -श्रवणबेल्गोल-शिलालेख नं० १०८. ११. न्यासं जैनेन्द्रसंज्ञं सकलबुधनुतं पाणिनीयस्य भयो न्यासं शब्दावतारं मनुजततिहितं वैद्य शास्त्रं च कृत्वा । यस्तत्त्वार्थस्य टीका व्यरचयदिहतां भात्यसौ पूज्यपादः, स्वामी भूपालवन्द्यः स्वपरहितवचः पूर्णदग्बोधवृत्तः । -नगर ताल्लुका शिलालेख नं० ४६. १२. नमोऽस्तु पूज्यपादाय, समाधिस्वामिने त्रिधा । राजवन्द्राय याचेऽहं, समाधिबोध-साधनम् ॥ १ ॥ कलिकालानले दग्धान्, जीवांस्त्रातुं समुद्यतः । राजचन्द्रसुधासिन्धुनमस्तस्मै स्मराम्यहम् ।। २ ।। नमोऽस्तु पूज्यपादाय, समाधिस्वामिन सदा । समावितन्त्रकर्तारं, नमामि समताधरम् ।। ३ ॥ -समाधिशतक टीका Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124