Book Title: Fundamental of Ancient Indian Music and Dance Author(s): Sureshchandra Benarji Publisher: L D Indology AhmedabadPage 98
________________ Appendix E देवर्षिक्षितिपालपूर्वरचितानालोक्य धर्मादिना तद्भावाश्रितभूमिकाभिनयने स्यादर्थसिद्धिः पुरा । संगीतादृतचित्तवृत्ति......भवत्यङ्गना ...श्रीयुतशंकरेण कथितं नाट्यं चतुर्वर्गदम् ॥ यो वित्तलोभेन सुखेन वापि हठेन वा गायति गीतमात्रम् । स वर्तते वर्षसहरूमीशपुरोगमः सर्वगणाग्रणीशः ।। त्यागी कृती कुलीनः सुश्रीको रूपयौवनोत्साही । ....नुरक्तो लोको भवति विदग्धोऽत्र नायको गुणवान्।। गीतस्यानुगतं वाद्य वाद्यस्यानुगतो लयः । चित्तवृत्ति यकस्य सर्वमेवानुगच्छति ।। धातुमात्रासमायोगो नृत्यमित्यभिधीयते । तत्र नादात्मको धातुर्मात्रा त्वक्षरसंचयः ।। ऊर्ध्वगो हृदयस्थानान्मारुतः प्राणसंज्ञकः । ब्रह्मरन्ध्रात्पतन् वक्त्रान्नाद आविर्भवत्यसौ ।। व्यक्तं शुद्ध यथाशास्त्रं दोषाष्टकविवर्जितम । सुकण्ठं ध्वनिना नित्यं यो गायति स गायनः ।। तिर्यगुत्फुल्लगलता . चक्षुराननमीलनम् । ऊर्ध्वाधोदशिर कम्पः प्रहूवता गानदूषणम् ॥ अदीर्घ ...गुरि तीक्ष्णबुद्धिः परिस्फुर... पाणिः सद्विबुधः श्री वेष्टः सुसद्विद्वान् कथितो मृदङ्गः। ...क्षमावान् शरणी...पटुतरो मञ्जु सङ्गीतशास्त्रे कुशलो रसज्ञः पात्रोत्तमोऽयं किल नृत्यशास्त्रे ॥ कुसुमवसन्तोऽद्य विधुकर्मवपुर्वेशभाषाथैः । हास्यकरकलहरुचिर्विदूषकः कथितो जनः ॥ पत्रावलीचित्रविलासलीला विभूषणश्रीमन्मदैकवेशा । लावण्यभाराभिनयप्रवीणा सा नायिका संकथिता कवीन्द्रैः ।। M-12 Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130