Book Title: Fundamental of Ancient Indian Music and Dance
Author(s): Sureshchandra Benarji
Publisher: L D Indology Ahmedabad

Previous | Next

Page 97
________________ 88 Fundamentals of Ancient Indian Music and Dance संहितानां प्रचाराय... ..भरतादयः । भदं नाम नटं चक्रुस्ततो ध्यान(?)प्रभावतः ।। अव्याहतगतिः स्वगे पाताले च तथा भुवि । अनुष्ठानेन गीतानां ततः सर्वानतोषयत् ।। सुभद्रश्चातिभद्रश्च वीरभद्रस्ततः परं । भद्र...विश्वभद्रो भद्र...॥ तस्य पुत्रः सुभद्रोऽभूत्पितुरप्यधिको गुणैः । येनेयं पृथिवी सर्वा धन्येति मन्यते जगत् ॥ अतिभद्रस्ततो जज्ञे सर्वभद्रतरो गुणैः । सर्वशास्त्रानुसारेण सर्वतो...रअनम् ॥ पुत्रोऽतिभद्रस्य च वीरभद्रो । बभूव यस्तुम्बुरुतुल्यगीतिः ।। दिव्येन गानेन महेशतोषं । विधाय सोऽवाप गणाधिपत्यम् ।। वीरभद्रतनयो भद्रपाणिविश्वविश्रुतकीर्तिः । भूतं भव्यं भवेत्सर्व हस्तेन कुरुते समक्षम् ॥ सुरवरभुजगानां मोहनं यस्य गीतम् । मुनिगण....लजित विश्वमासोत् ॥ जलनिधिहदमध्यादुत्थितः पद्मराजां । जगति विदितकीर्तिः..... ।। आसीत्तु तनयो भद्रकर्मा शास्त्रविचक्षणः । इतिहासप्रबन्धेन मुनीनामपि सस्ततः ।। तस्य पुत्राश्च पौत्राश्च बभूवुः चरमोज्ज्वलाः । वसुश्च नटवंशोऽयमेवं......तथा ।। द्वारकामाश्रिताः केचि....पुरेस्थिताः । केचित्प्राच्यामुदीच्यां च दक्षिणस्यां तथावरे ।। जितेन्द्रियाः सदाचाचारास्ते नटाः पुनरुत्तमाः। प्राच्यां प्रायेण गुणिनो नानाशास्त्रविचक्षण ।। राढायां(?) संस्थिता ये च ते नटाः पुनरुत्तमाः। ये गायन्ति सुगीतानि नृत्यन्ति च विचक्षणाः ।। नानाशास्त्रं च काव्यं च वर्ण्यन्ते कथयन्ति च । रञ्जयन्ति समाः सर्वास्ते नटाः पुनरुत्तमाः ॥ पारंपायेंण विदितो नटवंशो महागुणः । स्वगे मर्त्य च पाताले सङ्गीत...॥ ये नटाः पुण्यकर्माणः स्ववृत्तिस्था जितेन्द्रियाः । गुप्तास्ते श्रोत्रियैः सर्वैविप्रैर्जनसमुच्चयैः ।। इति श्रीनारदकृतपञ्चमसारसंहितायां प्रथमोऽध्यायः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130